________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । विविनविभक्तिविधानम्
२५३
षष्ठीविधानं सप्तमीबाधनार्थम् तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः स्वामीत्यत्र “स्वामीश्वर ० " ( २/२/९८ ) इत्यादिना सप्तमी न भवति ॥ ५१ ॥
द्वितीयाषष्ठयावेनेनाऽनञ्चः ॥ ५२ ॥
पूर्वेण ग्रामं ग्रामस्य । अनश्चेरिति किम् । प्राग् ग्रामात् ॥ ५२ ॥
" द्विती" । एनप्रत्ययान्तेन युक्ताद्गौणान्नान्नो द्वितीयाषष्ठयौ स्यातां न चेत्सोऽः परो विहितो ५ भवति । पूर्वेणेति–प्रामाददूरा पूर्वा इति "अदूरे एनः” ( ७।२।१२२ ) इत्येनप्रत्ययः । प्राग् ग्रामादिति – “लुबश्नेः ” ( ७|२| १२३ ) इत्येनप्रत्ययस्य लुब् । अनश्चेरिति प्रतिषेधाद्वितीयाषष्ठयोरभावात् “प्रभृत्यन्यार्थदिक्शब्देति” ग्रामात्पञ्चमी ॥ ५२ ॥
सि० २ २ ११७]
हेत्वर्थैस्तृतीयायाः ॥ ५३ ॥ [ सि० २२|११८ ]
हेत्वर्थैर्योगे तृतीयाद्याः सर्वा विभक्तयः स्युः । धनेन हेतुना । धनाय हेतवे । धनाद्धेतोः । १० धनस्य हेतोः । धने हेतौ वसति । एवं निमित्तादिभिरपि ॥ ५३ ॥
" हेत्व ० " । हेतुर्निमित्तं कारणमिति पर्यायाः । हेत्वर्थैर्युक्तात्प्रत्यासत्तेस्तैरेव समानाधिकरणाद्गौणान्नान्नस्तृतीयाद्याः सर्वा विभक्तयः स्युः । अयं भावः -- :- हेत्वर्थैर्युक्तादसर्वादेरनेन तृतीयाद्याः पञ्च विभक्तयो भवन्ति, उत्तरसूत्रेण त्वयैर्युक्तात्सर्वादेः सर्वाः सप्तापि विभक्तय इति ॥ ५३ ॥
सर्वादेः सर्वाः ॥ ५४ ॥ [ सि० २२|११९]
१५
1
हेत्वर्थैर्युक्तात्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ याति ॥ ५४ ॥
"सर्वा ०” । को हेतुरित्यादि । प्रथमां नेच्छन्त्येके द्वितीयामपरे । इत्यादिशब्दात् "असत्त्वारादर्थाद्वाङसिङ्यम्” (२|२| १२० ) सत्त्वं द्रव्यम्, ततोऽन्यदसत्त्वम्, आराद्दूरान्तिकयोस्तत्रेणोभयोर्ग्रहणम् । असन्त्ववाचिनो दूरार्थादन्तिकार्थाच टा ङसि ङि अम् इत्येते प्रत्यया भवन्ति । गौणा - २० दिति निवृत्तम् । दूरेण ग्रामस्य ग्रामाद्वा, दूराद्वामस्य ग्रामाद्वा, दूरे ग्रामस्य प्रामाद्वा, दूरं ग्रामस्य प्रामाद्वा वसति । इदंतदिति सर्वनामप्रत्यवमर्शयोग्यार्थाभिधायकत्वेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्वरूपार्थाभिधायित्वं न विरुध्यते । एवं विप्रकृष्टेन विप्रकृष्टात् विप्रकृष्टे विप्रकृष्टं प्रामस्य प्रामाद्वा तिष्ठति । अन्तिकार्थअन्तिकेन अन्तिकात् अन्तिके अन्तिकं ग्रामस्य ग्रामाद्वसति । अभ्यासेन अभ्यासात् अभ्यासे अभ्यासं ग्रामस्य प्रामाद्वा । ग्रामशब्दात् आरादर्थैरिति विकल्पेन पश्चमी, पक्षे “ शेषे” ( २।२।८१ ) इति षष्ठी । २५ केचिदारादर्थैः पञ्चम्यन्तैर्युक्तात्पञ्चमीं नेच्छन्ति, तेन दूरात् अन्तिकात् ग्रामस्येत्येव भवति न तत्सर्वसम्मतम् । पञ्चम्या अपि दर्शनात्
1
"दूरादावसथान्मूत्रम् दूरात्पादावसेचनम् । दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपितागुरोः " ॥ १ ॥ इति । असत्त्व इति किम् ? दूर: पन्थाः, अन्तिकः पन्थाः - अत्र सत्त्ववाचित्वाद्दूरान्तिकार्थादपि टादयो न भवन्ति, किन्तु यथास्वं प्रथमादय इति ॥ ५४ ॥
१ विभक्तिसम्बन्धत्वात्तनिवृत्तावित्यर्थः । अत्र हि टादीनि वचनान्युपात्तानि, न तृतीयाबा विभक्तयः ।
Jain Education International
For Personal & Private Use Only
३०
www.jainelibrary.org