________________
२५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सक्तूनां पीतम्, इदमहेः प्रसृप्तम् इदमेषामासितम्, “अद्यर्थादाधारे " ( ५|१|१२ ) इति क्तः । " वा क्लीबे” (२।२।९२ ) क्लीबे यो विहितः कस्तस्य कर्त्तरि षष्ठी वा स्यात् । छात्रस्य छात्रेण वा हसितम्, मयूरस्य मयूरेण वा नृत्तम्, कोकिलस्य कोकिलेन वा व्याहृतम्, इहाहेः सृप्तम्, इहा हिना सृप्तम् । क्लीब इति किम् ? चैत्रेण कृतम् " क्तक्तवतू” ( ५।१।१७४ ) इति भावेऽत्र क्तः । पूर्वेण प्रति५ षेधे प्राप्ते विकल्पोऽयम् । " अकमेरुकस्य" ( २ |२| ९३ ) कमेरन्यस्य उकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । आगामुकं वाराणसीं रक्ष आहुः । भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः । "यहणेन ” ( २|२| ९४ ) एष्यदर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात्, -इन् इति इन् णिनोर्महणम् । प्रामं गमी औणादिक इन् । प्राममागामी औणादिको णिन् । शतं दायी ददातीत्येवंशीलो “णिन्चावश्यकाधमर्ये" ( ५।४।३६ ) इति णिन् । एवं कारी मेऽसि कटम्, हारी मेऽसि १० भारम् । एष्यदृणेन इति किम् ? अवश्यङ्कारी कटस्य, साधुदायी वित्तस्य, यदा त्वयमावश्यके णिन् एष्यत्काले भवति, तदा एष्यदृणेन इति षष्ठीनिषेधे द्वितीयैव तथा च प्रयोगः- “भव लघु युताकान्तः सन्ध्यामुपास्स्व तपोऽमल, त्वरयति कथं सन्ध्येयं त्वां न नाम निशानुजा । द्युतिपतिरथावश्यंकारी दिनोदयमासिता, हरिपतिहरित्पूर्ण भ्रूणायिता कियतः क्षणान्” । इति नैषधीये सर्गे १९ वृत्तं २२ ॥ ४७ ॥ पृथग्नाना पञ्चमी च ॥ ४८ ॥ सि० २२|११३ ] १५ आभ्यां योगे तृतीयापञ्चम्यौ स्याताम् । पृथग् मैत्रान्मैत्रेण । अनुमानहेतोरप्येवम्शब्दोऽनित्यः कृतकत्वेन कृतकत्वाद्वा ॥ ४८ ॥
“पृथ०” । यदा पृथग्नानाशब्दावन्यार्थी तदा " प्रभृत्यादि ० " ( २।२।७५ ) सूत्रेण पञ्चमी सिद्धैव तृतीयैवानेन विधीयते, यदात्वसहायार्थों तदा पञ्चमीविधानार्थमपीदम् ॥ ४८ ॥
२०
२५
ऋते द्वितीया च ॥ ४९ ॥ [ सि० २ २ ११४ ]
ऋतेयोगे द्वितीयापञ्चम्यौ स्याताम् । ऋते धर्म धर्माद्वा कुतः सुखम् ॥ ४१ ॥ "ऋते ०' ०" ऋते इत्येतदव्ययं वर्जनार्थम् । यद्यपि पाणिन्यादिभिर्ऋते योगे द्वितीया नोक्ता तथापि शिष्टैः प्रयुक्ता; तथाहि
"चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ १ ॥
विना ते तृतीया च ॥ ५० ॥
सि० २ २ ११५]
विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः । विना पापं पापात् पापेन सुखं स्यात् ॥ ५० ॥ "विना ०" । ते इति द्वितीयापश्वम्यावित्यर्थः । पाणिन्यादयो द्वितीयां नेच्छन्ति ॥ ५० ॥
तुल्यार्थैस्तृतीयाषष्ठ्यौ ॥ ५१ ॥ सि० २ २ ११६]
मात्रा तुल्यः मातुस्तुल्यः ॥ ५१ ॥
३०
" तुल्या०" अर्थग्रहणं पर्यायार्थम् - तेन मात्रा सदृशः मातुः सदृशः सदृक्षः सम इत्याद्यपि भवति । उपमा नास्ति कृष्णस्येत्यादौ त्वयं विधिर्न स्यात्, तुलोपमादयो हि शब्दाः सादृश्यवाचका न तु सदृश३२ वाचका इति । गौणाधिकाराच्च गौरिव गवयो यथा गौस्तथा गवय इत्यादौ न भवति । तृतीयामविकल्प्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org