________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । षष्ठीविधाननिषेधौ २५१ "कृत्य.” कर्तरीत्येव-गेयो बटुर्गाथानाम् । गायतीति गेयः "भव्यगेयजन्य.” (५।१।७) इत्यादिना निपातः । प्रवचनीयो गुरुः शास्त्रस्य-प्रवक्तीति "प्रवचनीयादयः (५।१।८) इति निपातः ।
अत्रायं विशेष:-"नोभयोर्हेतोः” (२।२।८९) उभयोः कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्य सम्बधिनोरुभयोरेव षष्ठी न स्यात् । नेतव्या प्राममजा मैत्रेण । उभयोhतोरिति किम् ? एकैकहेतोर्मा भूत्उपस्थापनीयः पुत्रः पितुः । उपस्थापनीयः पिता पुत्रस्येति ॥ ४५ ॥
रिरिष्टात्स्तादस्तादसतसाता ॥ ४६॥ [सि० २।२।८२] एभिः सप्तभिर्योगे षष्ठी स्यात् । गृहस्योपरि उपरिष्टात् परस्तात् पुरस्तात् पुरः दक्षिणत उत्तराद्वा ॥ ४६॥
"रिरि०"। उपरीत्यादिप्रयोगस्थितानाम् "ऊर्धाद्रिरिष्टातावुपश्चास्य” (७।२।११४) इति-“परावरात्स्तात्” (७।२।११६) इति “पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम्" (७।२।११५) इति “दक्षिणोत्तरा-१० चातस्” (७।२।११७) इति “अधरापराच्चात्” (७।२।११८) इत्यादिभिर्विहितानां प्रत्ययानां रिरिष्टादित्याद्यनुकरणम् । गृहस्योपरीति-ऊर्द्धशब्दस्य दिगदेशकालार्थस्य ऊर्खादित्यनेनोपभावः-एवं पूर्वावराधराणां "पूर्वावराधरेभ्यो.” इति यथाक्रमं पुर् अव् अध् इति पश्चादित्यपरशब्दस्य पश्चादेशः । पञ्चम्यपवादो योगः ॥ ४६॥ तृन्नुदन्ताव्ययक्वखानातृश्शतृङिणकच्खलर्थस्य ॥४७॥ [सि० २।२।९०] १५
एषां दशानां कृतां कर्मकोंः षष्ठी न स्यात् । वदिता धर्मम् । विश्वं जिष्णुः । कटं कृत्वा । ओदनं भोक्तुं याति । अनं पेचिवान् । कटं चक्राणः । अधीयंस्तत्त्वार्थम् । कटं कुर्वन् । कष्टं सासहिः। कटं कारको याति । सुकरो धर्मः । सुज्ञानं तत्त्वं भवता ॥४७॥ __ "तृन्नु०" । वदितेति-'तृन् शीलधर्मसाधुषु' (५।२।२७) इति तृन् जिष्णुरिति-एवं कन्यामलङ्करिष्णुः, शरान् क्षिप्नुः, अन्नं बुभुक्षुः, देवाम् वन्दारुः, धारुर्वत्सो मातरम् , श्रद्धालुस्तत्त्वम्-ओदनं भोक्तु-२० मिति-एवं पयः पायं व्रजति । आनेति उत्सृष्टानुबन्धग्रहणात् कानशानानशां ग्रहणम् । कटं चक्राण इति कानः; एवं वचनमनूचानः । मलयं पवमानः पवते इति पवमानः "पृङ्यजःशानः" (५।२।२३) कतीह कवचमुद्वहमानाः, कतीह शत्रून्निन्नानाः, कतीह वपुर्भूषयमाणाः, त्रिष्वपि “वयःशक्तिशीले" (५।२।२४) इति शानः । आनश-ओदनं पचमानः, मैत्रेण पच्यमानः, कटं करिष्यमाणः । अधीयन्निति"धारीडोऽकृच्छ्रेऽतृश्” (५।२।२५) । कष्टं सासहिरिति "डौः सासहिवावहिचाचलिपापतिः' २५ (५।२।३८) "सस्रिचक्रिजज्ञिदधिनेमिः" (५।२।३९) एवं कटं चक्रिः, दधिश्चित्तम् । कटं कारको यातीति "क्रियायां क्रियार्थायां तुम्-णकच-भविष्यन्ती” (५।३।१३) इति चिन्निर्देशात् णकस्य न भवति-वर्षशतस्य पूरकः । सुकरो धर्म इति-"दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्” (५।३।१३९)। सुज्ञानं तत्त्वमिति-"शासियुधिशिधृषिमृषातोऽनः" (५।३।१४१)।
इत्यादिशब्दोपादानात् "क्तयोरसदाधारे" (२।२।९१) सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे ३० विहितौ यौ तौ तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण, कटं कृतवान्मैत्रः । असदाधार इति किम् ? राज्ञा ज्ञातः, बुद्धः, मतः, इष्टः, पूजितः-ज्ञानेच्छा दिसूत्रेण वर्तमाने क्तः । कथं शीलितो मैत्रेण रक्षितश्चैत्रेण ? भूतेऽयं क्तः, वर्तमानताप्रतीतिस्तु प्रकरणादिनेति । अन्ये तु ज्ञानेच्छा_र्थात् बीच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति, तन्मतेऽपशब्दावेतौ । आधारे-इदमोदनस्य भुक्तम् , इदं ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org