________________
२५०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
कर्मणि कृतः कर्तरि च ॥४४॥ कृदन्तस्य कर्तृकर्मणोः षष्ठी स्यात् । अपां स्रष्टा । भवत *आसिका । कचिद्वा। विचित्रा सूत्राणां कृतिराचार्यस्याचार्येण वा ॥४४॥ _ "कर्मणि कृतः” (२।२।८३ ) *"कर्तरि" (२।२।८६)। सूत्रद्वयं स्पष्टम् । प्रथमसूत्रे अपां ५स्रष्टेति-एवं पुरां भेत्ता, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः, यवानां लावकः, ओदनस्य भोजकः, विश्वस्य ज्ञाता, तीर्थस्य कर्ता, उदकस्य पिबः, ग्रामस्य गमनम् , गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता । क्रियाविशेषणस्यापि कर्मत्वाभावान्न भवति-स्तोकं पचति । कृत इति किम् ? कटं करोति, कृतपूर्वीकटमित्यादि, त्यादितद्धितयोः कर्मणि मा भूत् । कथमर्थस्य त्यागीति, विषयाणां जयी, वीराणां प्रसविनीति ? एषां मत्त्वर्थीयेनन्तानां कर्मणि कथं षष्ठीत्याक्षेपः। परिहारस्तु अत्र ताच्छीलिकयोर्घिणिनोः १० कर्मेति भवतीति द्वितीयापवादोऽयम् । कचिद्वेति “द्विषो वातृशः” (२।२।८४ ) अतृशप्रत्ययान्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं द्विषन् । तृन्नादिसूत्रेण प्रतिषेधे प्राप्ते विकल्पोऽयम् । "वैकत्र द्वयोः” (२।२।८५) द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकत्र षष्ठी वा स्यात् । अन्यत्र पूर्वेण नित्यमेव । अजाया नेता सुन्नम् । अजाया नेता स्रुघ्नस्य । अथवा अजां नेता सुनस्य । अजाया नेता सुनस्य ।
पयसो दोहको गाम् । पयसो दोहको गोः । यदि वा गोर्दोहकः पयः, गोर्दोहकः पयसः । अन्ये तु १५ नीवह्यादीनां द्विकर्मकाणां गौणे कर्मणि, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति । उभयत्रापि नित्यमेवेत्यन्ये । *द्वितीयसूत्रे कृदन्तस्य कर्तरि षष्ठी स्यात् , तृतीयापवादः । *आसिकेति-आसितुं पर्याय आसिका । एवं भवतः शायिका, भवतोऽग्रगामिका । शयितुं पर्यायः, अग्रे गन्तुं पर्याय इति "पर्यायाहणोत्पत्ती च णकः" (५।३।१२०)। भवतः स्वापः। भवत आसना-आसनं आसना "णिवेत्त्यासश्रन्थघट्टवन्देरनः”। (५।३।१११) कृत इत्येव-त्वया शय्यते । कचिद्वेति वचनात् "द्विहेतोरख्यणकस्य वा” (२।२।८७) २० रुयधिकारविहिताभ्यामकारणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठयोः प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा स्यात् । नित्यप्राप्ते विभाषेयम् । विचित्रेति-एवं साधु शब्दानामनुशासनमाचार्यस्याचार्येण वा । साधु खलु पयसः पानं मैत्रस्य मैत्रेण वा । गम्यमानेऽपि कर्मणि भवति–'अन्तौं येनादर्शनमिच्छति' यस्यादर्शनमिच्छतीति वा, आत्मनः कर्मतापन्नस्येति गम्यते । पञ्चमीविधायकं पाणिनीयं सूत्रमिदम् । अस्य
चायमर्थः-अन्तौँ अन्तर्द्धिविषये आत्मनः कर्मतापन्नस्य येनोपाध्यायादिना कर्तृभूतेन यददर्शनं तदि२५ च्छतीत्यर्थः । द्विहेतोरित्येकवचननिर्देशात् आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भाव इति, भिन्नकृतोः
कर्तृकर्मषष्ठीहेतुत्वमत्रेति न भवति । अत्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्-चिकीर्षणं चिकीर्षा "शंसिप्रत्ययात्” (५।३।१०५) इति अप्रत्ययः। भेदिका चैत्रस्य काष्ठानाम् , भेत्तुं पर्यायो भेदिका; णिगन्तभिदेस्तु भेदयितुं पर्यायः । भेदिका चैत्रस्य मैत्रस्य काष्ठानाम्-अत्र द्वयोरपि कोंः "कर्तरीति"
षष्ठयेव न तु द्विहेतोरिति तृतीया णकवर्जनात्, णकसूत्रं च "पर्यायोऽहणोत्पत्तौ च णक” इति । ३० कर्तरीत्येव-साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वेत्यत्र शब्दशब्दात्कर्मणि विकल्पो न स्यात् । अन्ये तु घअल्प्रत्यययोढेिहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न कर्त्तरि-आश्चर्य इन्द्रियाणां जयो यूना ॥ ४४ ॥
कृत्यस्य वा ॥४५॥ [सि० २।२८८] ध्यण्तव्यानीययक्यपः कृत्याः । एषां कर्तरि षष्ठी वा स्यात् । त्वया तव कार्य कर्तव्यं ३५ करणीयं देयं कृत्यम् ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org