SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । षष्ठीविधानम् २४९ माषसम्बन्थ्यशनमिति । ननु क्रियामन्तरेण सम्बन्धाभावात्तत्र च कर्मादेरवश्यम्भावात्कथं तस्याविवक्षेत्युच्यते-भवति सतोऽप्यविवक्षा-यथानुदरा कन्या, अलोमिका एडकेति । ननु सम्बन्धस्य द्विष्ठत्वाद्राज्ञः पुरुष इत्यत्र राजशब्दादुत्पन्नया षष्ठ्या राजगतपुरुषसम्बन्धाभिधानेऽपि पुरुषगतराजसम्बन्धाभिधानाय पुरुषशब्दादपि षष्ठी प्राप्नोतीत्यत्रोच्यते--द्विष्ठोऽप्यसावेक एव, य एव राशि स एव पुरुषे नान्यस्तैनैकेन द्वावपि सम्बद्धौ; एकत्वाच्च तस्यैकस्मादेवोत्पन्नया षष्ट्या प्रत्यायितत्वाहितीयसम्बन्धिनो नार्हति भवितुम् ,५ तत्रापि गौणाधिकारादप्रधानादेव भवति । नन्वेवं प्रधानात्प्रतिषिद्धायामपि षष्ठ्यां नामार्थमात्रे विधीयमानायाः प्रथमाया अप्राप्तिः सम्बन्धस्याधिकस्य भावात् । नैष दोषः, अधिकस्य वाक्यार्थत्वमित्युक्तत्वात् । राज्ञ इति-सन्निधाने हि पुरुषस्य सम्बन्धित्वं प्रतीयते नान्यथा । पुरुषनाम तु स्वार्थमात्रे वर्तते इति प्रथमा सिद्ध्यति । ययेवं पुरुषशब्दसन्निधाने एव राज्ञः पुरुषसम्बन्धित्वावगमो नान्यथाऽतो राजशब्दादपि प्रथमाप्रसङ्गः। नैष दोषः।राज्ञ इति केवले पदे उच्चार्यमाणे सम्बन्धित्वमनियतप्रतियोगि-१० राज्ञो गम्यते यस्माद्राजा परोपकारित्वेन विवक्षितो न स्वनिष्ठत्वेन पुरुषस्य तु राजशब्दमन्तरेण सोऽर्थो न प्रतीयते इति वाक्यार्थः । अस्त्यत्र कारणं राजशब्दाद्धि भवान् षष्ठीमुच्चारयति अत्र हि पुरुषशब्दादुच्चारितात् गम्यते सोऽर्थ इति । ननु नैतेनैवं भवितव्यम्-नहि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावी क्रियेते; किं तर्हि ? अर्थस्य प्रतिपादयिषाविषयीकरणाकरणाभ्यां शब्दस्योच्चारणानुच्चारणलक्षणौ, तत्र परोपकारित्वेन राज्ञो विवक्षितत्वात्षष्ठी भवति पुरुषस्य तूपकार्यत्वेन स्वनिष्ठतया विवक्षितत्वात्प्रथमा । १५ तदुक्तं हरिणा "द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते । तत्राभिधीयमानश्च प्रधानेऽप्युपयुज्यते” ॥ १ ॥ तस्मादर्थरूपमेवैतदेवंजातीयकं येनात्रान्तरेणापि पुरुषशब्दप्रयोगं राजनि सोऽर्थो गम्यत इति । किं पुनस्तत्स्वामित्वम् ? समासकृत्तद्धितेषु भावप्रत्ययेन सम्बन्धाभिधानमिति वचनात् स्वस्वामिभावसम्बन्ध इत्यर्थः । स्वामित्वं च स्वसापेक्षमित्यनियतं स्वमपेक्ष्य राज्ञः सम्बन्धाश्रयः षष्ठयुत्पद्यते पुरुषशब्दसन्निधौ २० तु स्वविशेषप्रतिपत्तिरिति । ननु यथैवं राजनि स्वकृतं स्वामित्वमेवं पुरुषेऽपि राजकृतं स्वत्वमिति ततः षष्ठी प्राप्नोति ? उच्यते-राज्ञः पुरुष इति गुणप्रधानभावेनार्थद्वयमवस्थितम् , तत्र सम्बन्धो गुणे पदं न्यस्य द्विष्ठत्वात् प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृत्तौ रूपान्तरमाश्रयति, प्रधानं तु स्वनिष्ठमेव न रूपान्तरं भजत इति । प्राधान्यं तु पुरुषादेरुत्तरपदस्य क्रियापदसामानाधिकरण्यात् , यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते तदा पुरुषस्य राजेति भवत्येव । राज्ञः पुरुषस्य कम्बल इत्यत्र २५ तु राजापेक्षया पुरुषस्य प्राधान्येऽपि कम्बलापेक्षया गौणत्वाद्भवति । खस्वामिभावादिरित्यत्रादिशब्दात् उपगोरपत्यमित्यत्र जन्यजनकभावः सम्बन्धः, पशोः पाद इत्यत्रावयवावयविभावः, वृक्षस्य शाखा इत्यत्राधाराधेयभावः, क्षीरस्य विकार इति प्रकृतिविकृतिभावः, गवां समूह इति समूहसमूहिभावः, कुम्भस्य समीपमिति समीपसमीपिभावः, पृथिव्याः स्वामीति पाल्यपालकभावः, माषाणामनीयादिति भोज्यभोजकभावः, सुभाषितस्य शिक्षते इति शिक्षणशिक्षणीयभावः, नटस्य शृणोतीति श्रवणश्रवणा-३० वधिभावः, वृक्षस्य पर्ण पततीति पतनपतनावधिभावः, न ते सुखस्य जानते इति ज्ञानज्ञेयभावः, अन्नस्य नो देहीति दानदेयभावः, अक्षाणां दीव्यतीति देवनद्यूतभावः, प्रतः पृष्ठं ददातीति प्रहार्यप्रहरणभावः, महतां विभाषते इति विभाष्यविभाषणभावसम्बन्ध इत्यादयः सम्बन्धाः स्वयं ज्ञेयाः । प्रथमापवादोऽयं योगः ॥ ४३ ॥ है. प्रका० पूर्वो० ३२ ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy