SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २४८ महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु इति जात्या निर्द्धारणम्, कृष्णेति गुणेन, धावन्तो गच्छतां गच्छत्सु वा शीघ्रतमा इति क्रियानिर्द्धारणम् । अविभागे इति किम् ? पञ्चालाः कुरुभ्यः सम्पन्नतमाः, मैत्रश्चैत्रात्पटुः- :-अत्र हि शब्दाद्भेद एव प्रतीयते नतु कथविदैक्यमिति न भवति । पञ्चमीबाधनार्थं वचनम् । अन्ये तामपीच्छन्ति - गोभ्यः कृष्णा सम्पन्नक्षीरतमा । ५ अत्रादिशब्दात् "क्रियामध्येऽध्वकाले पञ्चमी च" ( २।२।११० ) क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्त्तमानागौणान्नान्नः पञ्चमी सप्तमी च स्यात् । इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति । इह धानुष्कावस्थानमिषुमोक्षो वैका क्रिया, लक्ष्यव्यधश्च द्वितीया, तन्मध्ये कोशोऽध्वा । अद्य भुक्त्वा मुनिर्क्यहात् भोक्ता; अत्र द्वयोर्मुक्तिक्रिययोर्मध्ये व्यहः काल इति । " अधिकेन भूयसस्ते " (२२१११ ) अधिरूढ इत्यर्थेऽधिकशब्दो निपात्यते । अधिरूढ इति च कर्त्तरि कर्मणि वा तो १० भवति । तत्र यदा कर्त्तरि तदाधिक इत्यनेनाल्पीयानित्युच्यते, यदा तु कर्मणि तदा भूयान् । तत्र सामर्थ्यादल्पीयोवाचिनाधिकशब्देन युक्ताद्भूयोवाचिनो गौणान्नाम्नः सप्तमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खार्या खार्या वा ॥ ४२ ॥ à 11 83 11 [fao RIRIC? ] कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिः सम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः १५ पुरुषः । उपगोरपत्यम् । माषाणामश्नीयात् ॥ ४३ ॥ शेषे शेषशब्दस्यानेकार्थत्वेऽपि केषुचिदर्थेषूपयुक्तेषु केषुचिच्चानुपयुक्तेषु उपादीयमानोऽत्र शेषशब्द उपयुक्तेतरवचन इत्याह- कर्मादिभ्योऽन्य इति । ते हि पूर्वमुपयुक्तानामार्थस्य प्रथमाविषयत्वात्कर्मादिभ्योऽन्यः सम्बन्ध एवावतिष्ठते इति सामर्थ्यात्सम्बन्धे षष्ठी भवति । ननु यथा नीलोत्पलमित्यत्र नीलमिति नामार्थादप्रच्युतं विशेष्यसामानाधिकरण्येन प्रयोगात्ततोऽतः प्रथमैव भवति न षष्ठी विशेषण२० विशेष्यभावस्य नामार्थव्यतिरिक्तस्य वाक्यार्थत्वात् । यदुक्तं भाष्ये-आधिक्यस्य वाक्यार्थत्वादिति, तथा राज्ञः पुरुष इत्यत्रापि सम्बन्धस्य वाक्यार्थत्वात्षष्ठी न प्राप्नोति ? नैष दोष: । राज्ञ इति पदं सम्बन्धित्वेन विवक्षितत्वात्प्रयुक्तमित्यतः सम्बन्धे षष्ठी कृता, एतच्च भाष्य एव निर्णीतमित्यास्ताम् । स्यादेतदत्र द्वयीकल्पना नामार्थस्य कदाचित्प्रयोक्तृविवक्षया क्रियाभिसम्बन्धः कदाचित्स्वनिष्ठ एव यदा तावत्क्रियाभिसम्बन्धस्तदा कर्मादिशक्तीनां सम्भवो यथा वृक्षं पश्येत्यत्र दृशिक्रियाविशेषात्कर्मत्वम्, २५ यदा तु स्वनिष्ठोऽव्यतिरिक्त एव तदा प्रथमाया विषयो नचापरो नामार्थोऽस्ति यत्र कर्मादिविशेषव्यतिरिक्तत्वमिति कः शेषो नामावतिष्ठते यत्रेयं षष्ठी स्यादित्याशङ्कयाह - क्रियाकारकपूर्वक इति । अयमर्थो राज्ञः पुरुष इत्यत्र योऽयं राजपुरुषयोः सम्बन्धो नायं कारणान्तरनैरपेक्ष्येणाकस्मादुपजायते, अपि त्वन्तर्भूतक्रियाकारकसम्बन्धनिबन्धनः; यतः पुरुषो योगक्षेमकामो राजानमुपसर्पति, राजापि तमभिलषित - धनदानादिना बिभर्त्ति ; क्रियान्तरं वा प्रकल्पनीयम्; ततो राज्ञोऽसौ सम्बन्धीभूत् इति राज्ञः पुरुष इति । ३० एतच्चानैकान्तिकमित्याह - तदविवक्षारूप इति कर्माद्यविवक्षारूप इत्यर्थः ; यतः कारकाणां कर्मादीनामविवक्षायां सामान्यकारकविवक्षायामेव केवलायां सम्बन्धस्य प्रादुर्भावात्कारकशेष इति व्यवहियते; अत एव द्विविधोऽसौ - श्रूयमाणक्रियोऽश्रूयमाणक्रियश्च; तथाहु: “सम्बन्धः कारकेभ्योऽन्यः, क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते” ॥ १ ॥ तत्र राज्ञः पुरुष इत्यादौ क्रियाकारकपूर्वकोऽश्रूयमाणक्रियः स्वस्वामिभावादिसम्बन्धः । माषाणामश्री३५ यादित्यादौ तु श्रूयमाणक्रियो यतोऽत्र सदपि कर्मत्वाद्यविवक्षितत्वाद्विशेषणविशेष्यभाव एव प्रतिपाद्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy