________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । सप्तमीविधानम् २४७ (२।२।१०५) उपेन युक्तादधिकिनि वर्तमानाद्गौणान्नाम्नः सप्तमी स्यात् । उपोऽधिकाधिकिसम्बन्धं योतयति । उप खार्यां द्रोणः-द्रोणोऽधिकः खार्या इत्यर्थः; उप निष्के कार्षापणः-कार्षापणोऽधिको निष्कस्येत्यर्थः । उपेनेति किम् ? खार्या उपरि द्रोणः । अधिकिनीति किम् ? अधिके मा भूत् तेन उप द्रोणे खारीति न भवति ॥ ३९ ॥
यद्भावो भावलक्षणम् ॥ ४०॥ [सि० २।२।१०६ ] भावः क्रिया । यस्य भावेनान्यो भावो लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥४०॥
"यद्भावो०" । प्रसिद्धं लक्षणं अप्रसिद्धं लक्ष्यम् । भावः क्रियेत्यादि-यस्य क्रिययाऽन्या क्रिया लक्ष्यते तस्मिन्क्रियावति वर्तमानाद्गौणानाम्नः सप्तमी स्यात् । गोषु दुह्यमानासु गतः दुग्धास्वागतः-अत्र कालतः प्रसिद्धन गवां दोहेन भावेनान्यस्य गमनमप्रसिद्ध लक्ष्यते । गम्यमानेनापि भावेन भावलक्षणे भवतिआनेषु कलायमात्रेषु गतः, अत्र जातेष्विति गम्यते । यत्र क्रियार्हाणां कारकत्वं तद्विपर्ययो वा यथा १० ऋद्धेषु भुञ्जानेषु दरिद्रा आसते, ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते । यत्र च क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा यथा दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते, दरिद्रेषु भुञ्जानेषु ऋद्धा आसते तत्राप्यनेनैव सप्तमी । तच्च भावलक्षणं त्रिविधं भवति-तथाहुः-'कर्तरि कर्मणि भावे त्रिविधं तद्भावलक्षणं तत्र । साप्यानाप्यकधातुप्रयोगतः कर्तरि द्विविधम् ॥ १॥ यथा सूर्योऽभ्युदयं गच्छति कजेषु विकसत्सु रात्रिरगात् इति कर्त्तरि भावलक्षणम् ; रविणा क्रियमाणेऽहन्युदीयमाने च याति तमः इति कर्मणि कर्तरि भावे च १५ भावलक्षणमित्यादि वाक्यप्रकाशतो ज्ञेयम् । भाव इति किम् ? यो जटाभिस्तस्य भोजनम् अत्र न भावो भावस्य लक्षणमपि तु द्रव्यम् । भावलक्षणमिति किम् ? यस्य भोजनं स मैत्रः । तृतीयापवादो योग इत्थम्भूतलक्षणेऽर्थे । __ आदिशब्दोपादानात् “गते गम्येऽध्वनोऽन्ते नैकार्थ्य वा" ( २।२।१०७) कुतश्चिदवधेविवक्षितस्याध्वनोऽवसानमन्तः, यद्भावो भावलक्षणम् , तस्याध्वनोऽध्ववाचिशब्दस्याध्वन एवान्ते-२० नान्तवाचिना सहैक्याथ सामानाधिकरण्यं वा भवति । तद्विभक्तिस्तस्माद्भवतीत्यर्थः । गते गतशब्दे गम्ये, शब्दतोऽप्रयुज्यमाने इत्यर्थः । गवीधुमतः साङ्काश्यं चत्वारि योजनानि-चतुर्पु योजनेषु गतेषु भवतीत्यर्थः; पक्षे पूर्वेण सप्तमी-गवीधुमतः साकाश्यं चतुर्षु योजनेषु । ननु अन्तेन सहाध्वनोऽभेदोपचारात् सिद्धमेवैकार्थ्यं किमनेन ? सत्यम् । कार्तिक्या आग्रहायणी मासे इत्यादि कालेऽप्येवं मा भूदिति वचनम् ॥ ४०॥
षष्ठी वाऽनादरे ॥४१॥ [सि० २।२।१०८] अनादरे गम्ये भावलक्षणा षष्ठी वा, पक्षे सप्तमी। रुदतो लोकस्य रुदति लोके वा प्रबजितः॥४१॥ “षष्ठी०" । रुदतीत्यादि-रुदन्तं लोकमनादृत्य प्राब्राजीदित्यर्थः ॥ ४१ ।।
सप्तमी चाविभागे निर्धारणे ॥ ४२ ॥ [सि० २।२।१०९] समुदायादेकदेशस्य जातिगुणक्रियादिभिरविभागे पृथक्करणेऽप्येवम् । क्षत्रियो नृणां नृषु वा ३० शूरः । कृष्णा गवां गोषु वा बहुक्षीरा ॥ ४२ ॥ इति सप्तमी।
"सप्त०" जात्यादिभिः समुदायात् बुद्ध्या पृथक्करणमेव निर्धारणम् , तस्मिन् गम्ये षष्ठीति सप्तमी व स्यात् । अविभागे इति-निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथश्चिदैक्ये शब्दाद्गम्यमाने । क्षत्रिय ३३ १ साधुर्मृत्यो राज्ञ इतिवन्निष्कस्याधिकशब्देन सह सम्बन्धाभावात् 'अधिकेन भूयसस्ते' इत्यनेन निष्कशब्दान्न पञ्चमी ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org