________________
२४६
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहै मलघु
षष्ठीति । “कुशलायुक्तेनासेवायाम्” (२।२।९७ ) कुशलो निपुणः, आयुक्तो व्यापृतः; आभ्यां युक्तादाधारे वर्त्तमानाद्द्रौणान्नान्नः सप्तमी वा स्यात्, आसेवायां तात्पर्ये गम्ये । कुशलो विद्याग्रहणे, आयुक्तस्तपश्चरणे; पक्षेऽधिकरणाविवक्षायां शेषषष्ठी - कुशलो विद्याग्रहणस्य, आयुक्तस्तपश्चरणस्य । आसेवायामिति किम् ? कुशलचित्रकर्मणि न च करोति । आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः । ५ आधारत्वाविवक्षयैव विकल्पे सिद्धेऽनासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् ॥ ३७ ॥
व्याप्ये तेनः ॥ ३८ ॥ [ सि० २२ ९९]
क्ताद्य इन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् । व्याकरणेऽधीती ॥ ३८ ॥
"
"व्याप्ये ०' । क्ाद्य इन् इत्यादि - " इष्टादेः " ( ७|१|१६८) इति सूत्रेण इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन् वक्ष्यते । तदन्तस्य व्याप्ये वर्त्तमानाद्रौणान्नान्नः सप्तमी स्यात् । अधीतं १० व्याकरणमनेनेति वाक्यावस्थायामभिधायाधीतीति वृत्त्योक्तेनाभिहिते कर्मणि प्रेत्ययार्थकर्तृकेण च धात्वर्थेन व्याप्यमाने कृतपूर्वी कटमित्यादाविव द्वितीयायां प्राप्तायां तदपवादः सप्तमी । यथैव ह्यधीती व्याकरणे इत्यत्र कर्मणोऽधिकरणत्वेन विवक्षितत्वात्सप्तमी प्रवर्त्तते तथा कृतपूर्वी कटमित्यादावपि प्रवर्त्तेत तस्माद्विवक्षाप्रविभागायेदं सूत्रम् । तेनः कर्मविषयेऽधिकरणविवक्षा नान्यत्रेति ॥ ३८ ॥
तद्युक्ते हेतौ ॥ ३९ ॥ [ सि० २ २ १०० ]
१५ कर्मसम्बन्धाद्धेतौ सप्तमी स्यात् ।
चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति, सीनि पुष्पलको हतः ॥ ५ ॥ असाधुसाधु निपुणयोगेऽपि सप्तमी । असाधुर्मैत्रो मातरि । प्रत्यादियोगे तु न । साधुमैत्रो मातरं प्रति ॥ ३९ ॥
"० " । हेतोरिति हेतुर्निमित्तकारणमिति । चर्मणीत्यादि, द्वीपिनमिति - अभिधानद्वीपिनाविति प्रति२० पदपाठात्पुंकीब लिङ्गोऽकारान्तः । सीनि पुष्पलक इति - पुष्पं लातीति डेऽज्ञाताद्यर्थविवक्षायां के च पुष्पलकः अत्रानेकार्थः पुष्पलकस्तु कीलके कृपणे गन्धमृगे च । सीमाशब्दस्तु मर्यादायामाम्नायान्मुष्केऽपि ततोऽस्य द्विधा व्याख्या- वृषणार्थमरण्यबिडालो हतो मर्यादार्थ कीलको वेति हेतुतृतीयापवादोऽयम् । असाध्वित्यादिना सूत्रद्वयस्य सङ्क्षेपमाह - तथाहि - "अप्रत्यादाव साधुना” (२।२।१०१ ) असाधुशब्दयुक्ताद्गौणान्नाम्नः प्रत्यादिप्रयोगाभावे सप्तमी स्यात् । प्रति-परि- अनु एते प्रत्यादयः । " साधुना " २५ (२।२।१०२ ) अत्रापि तथैव परं निपुणशब्दयोगेऽर्चायां विधानादनर्चायां तु व्यावृत्तेस्तत्त्वाख्यानेऽयं विधिरिति । “निपुणेन चार्चायाम् ” ( २।२।१०३ ) अर्चायां गम्यायां निपुणेन साधुना च योगे सप्तमी । षष्ठ्यपवादः । मातरि निपुणः, साधुः । अर्चायामिति किम् ? निपुणः साधुमैत्रो मातु:मातैवेनं निपुणं साधुं मन्यते इत्यर्थः । अप्रत्यादावित्येव - निपुणः साधुमैत्रो मातरं प्रतीत्यादि ।
आदिशब्दाकर्षणात् "स्वेशेऽधिना” ( २।२।१०४ ) स्वे ईशितव्ये ईशे च स्वामिनि वर्त्तमानादधिना युक्तात्सप्तमी । अधिः स्वस्वामिसम्बन्धं द्योतयति । तत्र स्वस्वामिवाचिनोर्यगौणत्वेन विवक्ष्यते ३१ ततः स्यादिति अधिमगधेषु श्रेणिकः अधिश्रेणिके मगधाः । षष्ठ्यपवादोऽयम् । " उपेनाधिकिनि "
१ प्रत्ययस्यार्थः प्रत्ययार्थः, प्रत्ययार्थः कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा । तेन व्याप्यमाने व्याकरण इति । २ पुष्पलकः क्षुद्रप्रामधिपतिः स हतो मारितः । अथवा पुष्पलकः सीमादिकार्थ निक्षिप्तः पाषाणः स केनचित्सीमास्वामिना हृतो भिन्नः इति मुद्रितलघुन्यासटिप्पणिकायाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org