________________
२४५
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कारकप्रक्रिया । अधिकरणखरूपम् । सप्तमी विधानम् समस्तावयवसम्बन्धस्तदभिव्यापकं तद्ध्याधेयेनाभिव्याप्यते आधेयं वाभिव्याप्नोतीति कृद् “बहुलम् " (५।१।२) इति कर्मण्यपि णः, यथा तिलेषु तैलमिति अत्र तिलाद्यवयवास्तैलाद्यवयवान् व्याप्यावतिष्ठन्ते, तैलाद्यवयवा वा तिलाद्यवयवानिति । एवं दनि सर्पिः । एतत्समवायसम्बन्धेन अनवयवस्यापि गोत्वादेर्व्यक्त्याद्यवयवान् व्याप्यावतिष्ठमानस्य व्यक्त्यादिरभिव्यापक एवाधारः - यथा गवि गोत्वम्, तन्तुषु पट इति । क्रियाया अश्रवणेऽपि प्रतीयमानक्रियापेक्ष आधारः यदाघेयसन्निधिमात्रेण ५ क्रियाहेतुस्तत्सामीप्यकमिति - 'भेषजादित्वात् स्वार्थिकष्ट्यण' ततो 'यावादित्वात्कः' यथा वटे गाव इति । एवं गङ्गायां घोषः, कूपे गर्गकुलम्, बन्धुष्वास्ते, गुरौ वसति । नन्वाश्रय आधारो भवति, आश्रयश्च संयोगसमवायाभ्याम्, नचावस्थितिक्रियाश्रयेण घोषादिना गङ्गादेः संयोगसमवायौ स्तः । नैष दोषः । यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायौ तस्याश्रयो भवति - यथा राजाधीनस्थितिकः पुरुषो विनापि संयोगसमवायौ तस्याश्रयो पुरुष इति लोके व्यपदिश्यते । घोषादीनां च १० गङ्गाद्यायत्ता स्थितिरिति सन्निधिमात्रेण क्रियाहेतुत्वाद्युक्तो गवादीनामाश्रयभावः, यदा तु गङ्गादिशब्देन तत्समीपदेश एवाभिधीयते तदौपश्लेषिक एवाधार इति । नैमित्तिकेति - 'विनयादित्वात्स्वार्थिक इकण् यथा युद्धे सन्नह्यत इति - अत्र हि सन्नहनादीनां युद्धादिनिमित्तादीनां विवक्षितत्वात् युद्धादिर्नैमित्तिक आधारो भवति, सन्नहनादयस्त्वन्यत्रापि केनचिन्निमित्तेन भवन्तीति न युद्धादिर्वैषयिकः । एवं तु शरदि पुष्यन्ति सप्तच्छदाः, आतपे क्लाम्यति, छायायामाश्वसिति ॥ अन्यत्रावस्थितस्यान्यत्राध्यारोप उपचारस्तत्र १५ भव औपचारिकमध्यात्मादित्वादिकण् यथाङ्गुल्यमे करीति - अत्र ह्यन्यत्र स्थितस्य करिणः केनापि प्रयोजनादिनाङ्गुल्यम्रे आरोप्यमाणस्याङ्गुल्यग्र मौपश्लेषिकाद्भिन्न औपचारिक आधारो भवति । यदा त्वङ्गुल्यप्रादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदा औपश्लेषिक एवाधारोऽत एवाहुः -
“आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिषु । औपश्लेषिको वैषयिकोऽभिव्यापक एव च ॥ १ ॥ "सप्तम्य०" सोदाहरणं सूत्रं स्पष्टम् ॥ ३६ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ॥ ३७ ॥ [ सि० २२ ९८ ]
एभिर्योगे वा सप्तमी । गवां गोषु वा स्वामी ॥ ३७ ॥
“स्वामी ०” । एभिरिति - एभिर्युक्ताद्गौणान्नान्नः सप्तमी वा स्यात्, पक्षे शेषषष्ठी । गवां गोषु वा स्वामीति - एवमीश्वरोऽधिपतिः । पर्यायोपादानात् पर्यायान्तरयोगेन न भवति - ग्रामस्य पतिरित्यादौ षष्ठयेव स्यात् । एवं साक्षी प्रतिभूरित्यत्रापि - " प्रतिभूमिः श्रियः कीर्तौ धर्मे नीतेश्च साक्षिभिः । शुक्रे २५ गुरोः प्रसूतैनु दायादैर्वायि मन्त्रिभिः " ( ३ सर्गे ६१ वृत्त ) इति व्याश्रयकाव्ये । मन्त्रिभिराय आगतं नृपान्तिके महामतित्वात् शुक्रे गुरोः प्रसूतैर्नु अपत्यैरिव, यद्वा शुक्रस्य गुरोश्च दायादैरिव गोत्रिभिरिवेत्यर्थः । सप्तम्यर्थं वचनम् ।
1
इत्यादिशब्दाश्रयणात् “नवा सुजधैः काले" (२२/९६ ) सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां तदन्तैर्युक्तात्कालेऽधिकरणे च वर्त्तमानाद्रौणान्नाम्नः सप्तमी वा स्यात् । द्विरह्नि भुङ्क्ते पक्षे " शेषे” ३० (२।२।८१ ) इति षष्ठी द्विरह्नो भुङ्क्ते । एवं मासे मासस्य पञ्चकृत्वो भुङ्क्ते, बहुधाह्नि बहुधाह्रो भुङ्क्ते । सुर्थैरिति किम् ? अह्नि भुङ्क्ते, रात्रौ शेते । बहुव्रीह्याश्रयणात् सुजर्थप्रत्ययस्यार्थप्रयोगे तदर्थे गम्यमाने च मा भूत् । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते । आधारत्वाविवक्षायां षष्ठीसिद्धौ नियमार्थमिदम, तेन सुजर्थैरेव योगे काले एव वा सप्तमीत्युभयथापि नियमात्प्रत्युदाहरणेष्वाधारसप्तम्येव न तु शेष- ३४
Jain Education International
२०
For Personal & Private Use Only
www.jainelibrary.org