________________
२४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
प्रयोजककर्त्तरि तृतीयेति । हेतुर्हि फलसाधनयोग्यतामात्रेण विनापि क्रियां हेतुराख्यायते कर्त्रादिकारकं च न व्यापारमन्तरेणेति कर्त्रादिभ्योऽन्य एव हेतुरत एव " हेतुकर्तृकरणे ०” ( २।२।४४ ) इति सूत्रे हेतोः पृथगुपादानमिति । " गुणादस्त्रियां न वा " ( २|२|७७ ) द्रव्याश्रितः पर्यायो गुणः, अस्त्रियां वर्त्तमानाद्धेतुभूतगुणवाचिनो गौणान्नाम्नः पश्चमी वा स्यात् । जाड्याज्जाड्येन बद्धः, ज्ञानात् ५ ज्ञानेव वा मुक्तः । गुणादिति किम् ? धनेन कुलम्, द्रव्यं धनं हि न गुणः । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः, विद्यया यशः । अस्त्यत्राग्निर्धूमात् इत्यादौ नान्यादेर्धूमादिर्हेतुः किन्त्वग्निज्ञानस्य । कथं तर्हि पञ्चमी ? “गम्ययपः कर्माधारे” (२।२।७४ ) इति भविष्यति । धूमादिकमुपलभ्याग्निः प्रतिपत्तव्य इति ह्यत्रार्थः । ज्ञानहेतुत्वविवक्षायां हेतुलक्षणा तृतीया धूमेनाभिरिति । "आरादधैः " ( २२|७८ ) आरादित्यव्ययं दूरान्तिकयोः साधारण्येन वर्त्तते, तत्रेणोभयग्रहणम् । एकप्रयत्नेनानेककार्यसाधकं १० शास्त्रं तत्रम् । ततश्च दूरार्थैरन्तिकार्थैश्च शब्दैर्युक्ताद्रौणान्नान्नः पञ्चमी वा स्यात् । दूरं विप्रकृष्टमसन्निहितं ग्रामात् ग्रामस्य । अन्तिकमभ्यासं सन्निकृष्टं सन्निहितं ग्रामात् ग्रामस्य । आराच्छब्दयोगे तु प्रभृत्यादि - सूत्रेण नित्यमेव पञ्चमी । अन्ये त्वसत्त्ववचनैरेवारादर्थैरिच्छन्ति ।
आदिग्रहणात् "अज्ञाने ज्ञः षष्ठी" (२।२।८० ) ज्ञानादन्यत्रार्थे वर्त्तमानस्य जानातेः सम्बन्धिनि करणे वर्त्तमानागौणान्नान्नः षष्ठी स्यात् । सर्पिषो जानीते, सार्पिषा करणभूतेन प्रवर्त्तते इत्यर्थः । १५ अनेकार्थत्वाद्धातूनां प्रवृत्तौ जानातिरत्र वर्त्तते, तत्र च सर्पिरादि प्रवृत्तेः साधकतमं भोजनादिवस्तुप्रवृत्तेर्विषयः । अत एवाकर्मकत्वात् "ज्ञः” ( ३।३।८२ ) इत्यात्मनेपदम्, अथवा सर्पिषि रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सर्पिष्टया प्रतिपद्यते इत्यर्थः ; इंति मिथ्याज्ञानवचनोऽत्र जानातिः, मिथ्याज्ञानं चाज्ञानमेव ज्ञानकार्याकरणात् । करण इति किम् ? तैलं सर्पिषो जानाति तैलं सपरूपतया प्रतिपद्यते । अत्र तैलात्कर्मणः षष्ठी न स्यात् सर्पिषस्तु करणाद्भवत्येवेति तृतीयापवादो योगः ॥ ३५ ॥ क्रियाश्रयस्याधारोऽधिकरणम् ॥ ३६ ॥ [ सि० २२३० ]
क्रियाश्रयस्य कर्तुः कर्मणो वाssधारोऽधिकरणं स्यात् । तच्च वैषयिकौपश्लेषिकाभिव्यापकसामीप्यकनैमित्तिकौपचारिकभेदात् षोढा । "सप्तम्यधिकरणे” (२|२|९५ ) । दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । वटे गावः । युद्धे सन्नह्यते । अङ्गुल्यग्रे करी ।। ३६ ॥
"क्रिया ०" । क्रियाया आश्रयः क्रियासम्पादक इत्यर्थः । स च कर्त्ता कर्म च । क्रिया हि द्विविधा - २५ कर्त्तृस्था कर्तृसमवायिनी, कर्मस्था कर्मसमवायिनी च, ते तां जनयन्ती तस्या आश्रयौ भवतः; एतन्मनसिकृत्याह-क्रियाश्रयस्येत्यादि - नन्वेवं क्रियाश्रयोपकारकत्वात्क्रियासिद्धौ व्यापाराभावात्कथमस्य कारकत्वमित्यत्रोच्यते-क्रियाश्रयधारणद्वारेण क्रियासिद्धावुपकारकत्वात्कारकत्वमित्यदोषः । तदुक्तं
२०
वाक्यप्रदीपे
३०
"कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत्क्रियासिद्धौ, शास्त्रेऽधिकरणं स्मृतम् ॥ १ ॥ अधिकरणभेदानाह–तच्चेत्यादि - षोढेति सम्बन्धः । वैषयिकेति अनन्यत्रभावो विषयः - यथा चक्षुरादीनां रूपादयो विषयास्ते हि तत्र विसीयन्ते नान्यत्र भवन्तीत्युच्यन्ते । एवं देवादीनामन्यत्र प्रवृत्त्यभावाद्दिवादयो विषया इति । 'तस्मै योगादेः शक्ते' (६।४।९४ ) इति इकणि वैषयिकम्, यथा दिवि देवा इति, एवं नभसि तारकाः, भुवि मनुष्याः, पाताले पन्नगाः । औपश्लेषिकेति एकदेशमात्र संयोग उपश्लेषः "अध्यात्मादिभ्य ०" ( ६।३।७८) इतीकण्, यथा कटे आस्ते इति कटादेर्देवदत्ता दिनैकदेशमात्र संयो३५गस्य सम्भवात् एवं पर्यङ्के शेते, शाखायां लम्बते, गृहे तिष्ठतीत्यादि । अभिव्यापकेति यस्याधेयेन
Jain Education International
"
For Personal & Private Use Only
www.jainelibrary.org