________________
मक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । पञ्चमी विधानम् २४३ व्युत्पत्त्या सत्त्वमुच्यते, सत्त्वादन्यदसत्त्वम् । ननु किं तदित्यत्रोच्यते अनन्तपर्यायात्मके हि द्रव्ये प्रवर्तमानः शब्दः कञ्चिदेव स्वभावमुपादाय प्रवर्तते, तत्र योऽसौ द्रव्ये स्तोकादिकशब्दप्रवृत्तिनिमित्तभूतः पर्यायभेदः स गुणिद्रव्ये परार्थतया प्रतीयमानत्वादसत्त्वम् , तेनैव वा रूपेणाभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकेन स्तोकान्मुक्तो राहुणा शशीति, राहुग्रासे शशिनि स्तोकं प्रस्तं स्तोकमग्रस्तमभूदिति भावः । तथाहु:-"स्तोकस्य चाभिनिर्वृत्तेरनिवृत्तेश्च तस्य वा ।५ प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते" ॥ १ ॥ इति पूर्वाचार्यप्रसिद्ध्यात्र करणत्वमन्यथा स्तोकादीनामसत्त्ववाचितया क्रियासाधकतमत्वाभावात् करणत्वं न सम्भवतीति । करण इति किम् ? क्रियाविशेषणान्मा भूत्-स्तोकं चलति । इह च स्तोकादीनामसत्त्ववाचित्वाहित्वबहुत्वासम्भवे एकवचनमेव । एवमल्पादल्पेन कृच्छ्रात्कृच्छ्रेण कतिपयात् कतिपयेन मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः, अल्पेन मधुना मत्तः, कृच्छ्रेण भोजनेन निर्विण्णः । विषादिद्रव्यसामानाधिकरण्यादत्र सत्त्व-१० वृत्तितेति ॥ ३४ ॥
प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः ॥ ३५॥ [ सि० २।२१७५] एभिर्योगेऽपि पञ्चमी । ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो मिन्नो मैत्रात् । ग्रामात्प्राग वसति । पश्चिमो रामात्कृष्णः । बहिामात् । आराद्रामात् ॥ ३५ ॥ इति पञ्चमी ।
"प्रभृ०" एभिर्योगे इति प्रभृत्यर्थैरन्यादिंगशब्दैहिस्-आरात्-इतर-इत्येतैश्च शब्दैर्युक्ताद्गौणान्नाम्नः १५ पञ्चमी स्यात् । अन्यो भिन्नो मैत्रादिति एवमर्थान्तरं घटात् , व्यतिरिक्तः पटात् , विलक्षणोऽश्वात् , पृथग् जनात्, हिरुक गाादित्यादि । दिक्शब्देति-दिशि वाचकत्वेन दृष्टाः शब्दा दिकशब्दाः, न तु दिशि वर्तमाना एव, तेन दिग्वाचिशब्दस्य देशे काले आदिशब्दात् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी, एतदर्थमेव शब्दशब्दोऽपादानम् । देशे यथा-पूर्व उज्जयिन्या गोनर्दः । काले यथा-पूर्वो ग्रीष्माद्वसन्तः । द्रव्ये यथा-पश्चिमो रामात् कृष्णः । ग्रामात् प्राग वसतीति प्रपूर्वादश्चतेः विप् , ततः प्राची दिग्, प्रा२० देशः कालो वेति । "दिगशब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः” (७।२।११३) इति धाप्रत्ययः, "अदूरे एनः” (७।२।१२२) इत्यनेन एनप्रत्ययो वा, तस्य "लुबञ्चेः” (७२।१२३) इति लुब् । गम्यमानेनापि च दिवशब्देन भवति, क्रोशालक्ष्यं विध्यते, परेणेति गम्यते । “कमेर्णि” (३।४।२) ( कमेः) परो (णिङ्) भवतीति गम्यते । बहिस्-बहिर्गामात् । आरादित्यव्ययं दूरसमीपयोर्वाचक तेन तद्योगे पञ्चमी । वक्ष्यमाणस्यारादर्थैरिति विकल्पस्यापवादोऽयम् । आरात् ग्रामात् क्षेत्रम् , आरा-२५ न्मैत्रात्पीठम् । इतरशब्दो द्वयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्थाद्भिद्यते-इतरश्चैत्रात्तस्य द्वितीयो मैत्र इत्यर्थः ।
अत्रादिशब्दोपादानात् “ऋणाद्धेतोः” (२।२।७६) फलसाधनयोग्यपदार्थों हेतुः, हेतुभूतं यहणं तद्वाचिनो गौणानाम्नः पञ्चमी स्यात् , तृतीयापवादः । शताद्वद्धः । अत्रोत्तमर्णायाधमणेन धार्यमाणं शतं बन्धनस्यानाविष्टव्यापारतया निमित्तभूतं लौकिको हेतुस्ततस्तृतीयाबाधिकानेन पञ्चमी ३० विधीयते । हेतोरिति किम् ? शतेन बद्धः, शतेन बन्धितः, शतेन चैत्रेण बन्धितः । आधे शतमृणं बन्धकत्वेन विवक्षितमिति कर्तरि तृतीया, द्वितीये शतं बन्धकमन्यस्य णिक्रियाकर्तुः प्रयोज्यत्वेन विवक्षितमिति प्रयोज्यकर्तरि तृतीया, तृतीये शतं णिगर्थकर्तृत्वेन विवक्षितं चैत्रस्य प्रकृतकर्तुः प्रयोजकमिति ३३
१ अयमर्थः-अन्य इति प्रकृतिविलक्षणोऽर्थ उच्यते, इतर इति दृश्यमानप्रतियोगीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org