________________
२४२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुत्वाभावे यथायोगं विभक्तयो भवन्ति । बलाहके विद्योतते बलाहकं विद्योतते । अधर्म जुगुप्सते । चौरैभयम् । चौरैर्बिभेति चौरेषु बिभेति चौराणां विभेति । भोजने पराजयते । यवेषु गां वारयति । शृङ्गे शरो जायत इति ॥ ३१ ॥
आङाऽवधौ ॥ ३२॥[सि० २७०1 ५ अवधिर्मर्यादाभिविधिश्च । तद्वृत्तेराडा युक्तात्पञ्चमी स्यात् । आ मुनादृष्टो मेघः ॥३२॥
"आङा." अवधिर्मर्यादेति-प्रवृत्तस्य यत्र निरोधः सा मर्यादेति । अभिविधिश्चेति । मर्यादाविशेष एवाभिविधिः-मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाभिविधिरिति । आ ग्रुघ्नादिति-त्रुघ्नमभिव्याप्य मर्यादीकृत्य वा वृष्टो मेघ इत्यर्थः ॥ ३२ ॥
पर्यपाभ्यां वज्र्ये ॥ ३३ ॥ [सि० २।२।७१] १० आभ्यां युक्ताद्वर्जनीयात्पञ्चमी स्यात् । परिसाकेतात् अपसाकेतादृष्टो मेघः ॥ ३३ ॥
“पर्य" । वयंवर्जकभावसम्बन्धः पर्यपाभ्यां द्योत्यते इति सम्बन्धषष्ठ्यां प्राप्तायामनेन पञ्चमी विधीयते इति । परिसाकेतादिति-अत्र "वाक्यस्य परिवर्जने" (७४।८८) वाक्यस्यावयवो यः परिशब्दो न पदस्य, स वर्जने वर्तमानो वा द्विः स्यादिति परि परिसाकेतादित्यपि प्रयोगः स्यादिति ॥३३॥
यतः प्रतिनिधिप्रतिदाने प्रतिना ॥ ३४ ॥ [सि० २।२।७२] १५ प्रतिनिधिमुख्यसदृशोऽर्थः, प्रतिदानं गृहीतस्य विशोधनम् , ते यतः स्यातां ततः प्रतिना
योगे पञ्चमी स्यात् । प्रद्युम्नो वासुदेवात्प्रति । तिलेभ्यः प्रति माषान् प्रयच्छति । “गम्ययपः कर्माधारे" (२।२७४)। पञ्चमी । गृहादासनात्प्रेक्षते । गम्येति किम् ? प्रासादमारुह्यासने उपविश्य भुङ्क्ते । “स्तोकाल्पकृच्छूकतिपयादसत्त्वे करणे” (२।२७९)। पञ्चमी वा । स्तोकेन स्तोकान्मुक्तः ॥ ३४ ॥ २० "यतः" । मुख्यो यः क्वचित्कार्ये रूढसम्बन्धो यथार्जुनः शत्रुञ्जये, तस्यासन्निधाने यस्तत्कार्ये तदुद्ध्या नियुज्यते स प्रतिनिधिः; तथा चाह-मुख्यसदृशोऽर्थ इति । गृहीतस्य विशोधनमिति-तुल्यजातीयेनातुल्यजातीयेन वेति शेषः। ते यतः स्यातामिति-यत इति यच्छब्दान्मुख्यपूर्वदत्तप्रतिपादकाद्गम्यस्य यपः कर्माधार इति कर्मणि पञ्चमी; यमपेक्ष्य प्रतिनिधिप्रतिदाने भवतस्ततः पञ्चमी स्यात् । प्रद्युम्नस्य वासुदेवप्रतिनिधित्वाद्वासुदेवात्पञ्चमी । एवमभयः श्रेणिकतः प्रति; "प्रतिना पञ्चम्याः” (७।२।८७ ) २५ इति तसुः । तिलग्रहणमपेक्ष्य माषाणां प्रतिदानमिति तिलशब्दात्पञ्चमी । ___ अत्रादिशब्दग्रहणात् “आख्यातर्युपयोगे” (२।२६७३ ) आख्याता प्रतिपादयिता तत्र वर्तमानागौणान्नाम्नः पञ्चमी स्यात् , उपयोगे नियमपूर्वकविद्याग्रहणे । नियमो विद्याग्रहणार्थ गुरुशुश्रूषादि शिष्यवृत्तं ख्यायते न तूपयोगमात्रम् ; यत उपयोगमानं नटादपि भवत्येतस्मादपि स्यात्पञ्चमी । उपाध्याया
दधीते । उपयोग इति किम् ? नटस्य शृणोति, उपयोगविवक्षायां तु नटाद्भारतं शृणोतीति स्यादेव । ३० अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादिति वचनम् । “गम्य." ननु कुसूलात्पचतीत्यादिवद्गृहात् प्रेक्षते इत्यादावपि अपक्रमणाङ्गे दर्शने दृशेर्वर्त्तमानत्वादपादानपञ्चम्येव भविष्यति । सत्यम् । किन्तु आरुह्योपविश्येति यबर्थोऽपि गम्यते ततो यबन्ते प्रयुज्यमाने यथा कर्माधिकरणयोर्द्वितीयासप्तम्यौ
भवतस्तथा प्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्येयातामिति सूत्रारम्भः । "स्तोका०” असत्त्वे इति ३४ स्तोकादयः शब्दा यत्र सामानाधिकरण्यमनुभवन्ति स्तोकं धनमिति तद्रव्यं सीदन्त्यस्मिन् गुणा इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org