________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । अपादानखरूपम् । पञ्चमीविधानम् २४१ "अपाये यदुदासीनं चलं वा यदि वाचलम् । ध्रुवमेवातदावेशात्तदापादानमुच्यते” ॥ १॥ "पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते" ॥ २॥ "उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते” ॥ ३ ॥
"मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्”॥४॥ अपाये विश्लेषहेतुक्रियायामुदासीनमनाश्रयः अतदावेशात्तक्रियानाश्रयत्वादिति । नन्वेवं ग्रामान ५ गच्छतीत्यत्र कथमपादानसंज्ञा ? आगमनलक्षणस्यापायस्याभावात् । नैष दोषः । अत्र ह्यपादानसंज्ञायां जातायां पश्चान्निषेधेन सम्बन्धः । अन्यथा निषेधविषयाप्रतिपादनात् । तथापादानसाधना गमनक्रियाप्रतिषेद्धमिष्टा, यदि चादावेव प्रतिषेधसम्बन्धः स्यात् तदा गमनाभावात्तदसम्बन्धस्य ग्रामस्यापादानसंज्ञा न स्यात् । ततश्च या प्रतिषेध्यापादानसाधना गमनक्रिया प्रतिषेधस्य विषयः सा न शक्यते प्रदशयितुं न चाप्रदर्शितविषयः प्रतिषेधः प्रयुज्यते, तस्मात्पूर्वमपादानसंज्ञा भवति । ग्रामावधिकागमना-१० भाववान् प्रामान गच्छतीत्यस्यार्थः । तच्च त्रिविधम् ; तथोक्तम्
"निर्दिष्टविषयं किञ्चित् उपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते” ॥ १ ॥ ___ इति वाक्यप्रदीपे । यत्र साक्षाद्धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तन्निर्दिष्टविषयम्-यथा ग्रामादागच्छति, यत्र तु धातुर्धात्वन्तरार्थाङ्ग स्वार्थमाह तदुपात्तविषयम् , यथा बलाहकाद्विद्योतते विद्युत्अत्र हि निस्सरणाङ्गे विद्योतने विद्युतिर्वर्त्तते । यथा च कुसूलात्पचति-अत्राप्यादानाङ्गे पाके पचति-१५ वर्त्तते । यत्र तु क्रियावाचिपदं न श्रूयते केवलं यत्र क्रिया प्रतीयते तदपेक्षितक्रियम् , यथा कुतो भवान् पाटलीपुत्रादत्रागत इति क्रियापदमध्याहृतान्वयः कार्य इति । “पश्च." वृक्षादित्यादि-विश्लेषश्चात्र कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वकश्चेति द्विविधोऽपि ग्राह्यः, "साधकतमं करणम्" (२।२।२४) इत्यत्र तमग्रहणेन गौणग्रहणस्यापि ज्ञापितत्वात् । तत्र कायसंसर्गपूर्वको यथा-वृक्षात्पत्रं पतति, एवं ग्रामादागच्छति, गिरेरवरोहति, सार्थाद्धीनः धावतोऽश्वात्पतति, पततो देवदत्ताद्धावत्यश्वः, मेषान्मेषोऽपसर्पती-२० त्यादि । बुद्धिसंसर्गपूर्वको यथा-व्याघ्रादित्यादि-व्यानं कष्टहेतुं बुद्ध्या प्राप्य तस्मान्निवर्त्तते इति, एवं पापाजुगुप्सते, धर्मात्प्रमाद्यति, अधर्माद्विरमति । निवृत्त्यङ्गेषु जुगुप्साविरामप्रमादेष्वेते धातवो वर्तन्ते, अध्ययनात्पराजयते, अध्ययनमसमानस्ततो निवर्त्तते। चौराद्रक्षतीति मैनं चौरोऽद्राक्षीदिति बुद्ध्या चौरेण संयोज्य ततो निवर्त्तयति । शृङ्गादित्यादि-उक्तं च गोपुराणे "गोलोमाज्जायते दूर्वा, गोमयाद्वृश्चिकः स्मृतः । गोदोहागोरसं प्राहुर्गोशृङ्गादुच्यते शरः" ॥ १॥ एवं बीजादडरो जायते । अत्र शृङ्गादिभ्यः २५ शरादयः स्फुटमेव निष्क्रामन्तीति कायसंसर्गपूर्वोऽत्र विश्लेषः । यत्तु नात्यन्ताय निष्कामन्ति तत्सन्ततत्वादन्यान्यप्रादुर्भावाद्वेति । हिमवत इत्यादि-अत्राप्यापः सामन्तीति साक्षात् संसर्गपूर्व एव विश्लेषः, अन्यान्यप्रादुर्भावाच्च नात्यन्तमपक्रामन्तीति । कार्तिक्या इत्यादि-ततः प्रभृति मासे गते भवतीत्यपायः स्फुट एव । यवेभ्य इत्यादि-इहापि गोयवसंसर्गबुद्ध्या समीक्ष्यान्यतरविनाशं पश्यन् यवेभ्यो गां निवतयति, एवं कूपादन्धं निषेधयति । उपाध्यायादित्यादि-मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवति इत्य-३० पायः । वलभ्या इत्यादि-बलभ्या निःसृत्य गतानि योजनानि गतेषु वा तेषु भवतीत्यर्थः, स्फुट एवात्रापायः “गते गम्येऽध्वनोन्ते नैकार्थ्य वा” (२।२।१०७) इति प्रयोगसिद्धिः । माथुरा इत्यादि"बुद्ध्या समीहितैकत्वान् पश्चालान् कुरुभिर्यथा । बुद्ध्या विभजते वक्ता तदापायः प्रतीयते” ॥ १ ॥
चैत्रान्मैत्रः पटुः, अयमस्मादधिक ऊनः । अत्र मैत्रादयः पुंस्त्वादिना संसृष्टाः पटुत्वादिना धर्मेण ततो विभक्ताः प्रतीयन्ते इति । एवं रूपं रसात्पृथक् इत्यादि-सर्वत्राप्यपायविवक्षा, विवक्षान्तरे त्वपादान-३५
__ है. प्रका० पूर्वा० ३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org