________________
२४०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकरणाश्रयणं किम् ? शताय परिक्रीतो मासम्-मासाय मा भूत् ॥ करणाश्रयणं विना परिक्रीयतेऽस्मिनिति अनया व्युत्पत्त्या मासादपि स्याञ्चतुर्थी ॥ २९ ॥
शक्तार्थवषड्नमःखस्तिखाहावधाभिः ॥ ३०॥ [सि० २।२।६८] एभिर्योगे नित्यं चतुर्थी । शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोर्हदया। खस्ति ५प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ॥ ३०॥ इति चतुर्थी ।
"शक्ता०" शक्तार्थैर्वषडादिभिश्च युक्ताद्गौणान्नाम्नश्चतुर्थी नित्यं स्यादिति-नमोऽर्हत्य इति-तृतीयया योगाभिधानादिह न भवति-नमो जिनानामायतनेभ्यः, नात्र जिनानां नमसा योगः । नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा, अत्र हि नमस्यधातुरर्थवान्नतु तदेकदेशो नमःशब्द इति,
अथवा पदान्तरसम्बन्धानपेक्षणादन्तरङ्गया कारकविभक्त्या द्वितीययोपपदविभक्तिश्चतुर्थी बहिरङ्गा बाध्यते १. "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति न्यायात् । ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति
कथमन्तरङ्गा स्यात् ? नैष दोषः। कारकस्य क्रियामात्रसम्बन्धाव्यभिचारात्स्वरूपान्तर्गतैव सापेक्षा, विशिष्टक्रियापदश्रयणेन तु सैवापेक्षा नियम्यत इति, उपपदार्थापेक्षा तूपपदविभक्तिः प्रकृतेर्नानो न स्वार्थाभिधेयान्तर्गतेति । नन्वेवं स्वयम्भुवे नमस्कृत्येत्यत्र कथं चतुर्थीत्यत्रोच्यते-नानेनात्र चतुर्थी किन्तु
नमस्कृतिलक्षणया क्रिययाभिप्रेयमाणत्वात्सम्प्रदाने चतुर्थी, सम्प्रदानत्वाविवक्षायां स्वयम्भुवं नमस्कृत्येति १५ द्वितीयैवेति ॥ ३० ॥
अपायेऽवधिरपादानम् ॥ ३१ ॥ [सि० २२२२२९] __ अपायो विश्लेषः । “पञ्चम्यपादाने” (२।२।६९) वृक्षात्पत्रं पतति । व्याघ्रादिभेति । पापाजुगुप्सते । धर्मात्प्रमाधति । चौराद्रक्षति । शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति ।
कार्तिक्या आग्रहायणी मासे । यवेभ्यो गां रक्षति । उपाध्यायादन्तर्धत्ते । वलभ्याः शत्रुञ्जयः २० षट् योजनानि । माथुराः सौनेभ्य आब्याः॥३१॥
"अपा०" अपायो विश्लेष इति विश्लेषो विभागस्तजनकक्रियापि । तथा तत्र यवधिभूतं विश्लेषजनकक्रियानाश्रितं तदपादानं भवति, तद्विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वमिति फलितम् । वृक्षात्पर्ण पततीत्यत्र पर्णस्यापादानत्वनिरासाय सत्यन्तम् । धावतोऽश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्वि
श्लेषहेत्विति। कुड्यात्पततोऽश्वात्पततीत्यत्राश्वस्य कुड्यविश्लेषजनकक्रियाश्रयत्वेऽपि पुरुषविश्लेषजनकक्रिया२५ श्रयत्वादपादानत्वम् । कुड्यस्य चाश्वविश्लेषजनकक्रियानाश्रयत्वादश्वापेक्षयापादानत्वमिति। नन्वेवमुभयकर्मजविभागस्थले विभागस्यैक्यात्तविश्लेषजनकक्रियानाश्रयत्वाभावात्परस्परस्मादपसरत इति न स्यादित्यत्रोच्यते-आश्रयभेदेनापसरणं भिद्यते तत्रैकतरस्यापसरणेऽन्यस्यापादानत्वम् , नतु प्रवेशादन्यतरापसरणक्रियानाश्रयत्वादुभयोरपि तद्विश्लेषहेतुक्रियानाश्रयत्वमस्तीति भवति परस्परस्यापादानत्वमिति । यदपि
श्रीसूरिभिरुक्तम्-सावधिकं गमनमपायस्तत्र यदवधिभूतमपायेनानधिष्ठितं तदपादानमिति तस्या३०प्ययमेवाभिप्रायः-गमनशब्देन विश्लेषस्यैवोक्तत्वात् अपायेनानधिष्ठितमिति विश्लेषजनकक्रियानाश्रितमि
त्यर्थः । यदपि पाणिनीयसूत्रम्-"अपाये ध्रुवमपादानमिति” तस्याप्ययमेवाभिप्राय:-अपायविषयं यदवि३२ चलत्वं अपाययुक्ते गच्छत्यगमनंपतत्यपतनं तदिह ध्रुवं तच्चाश्वस्य विद्यत एवेति । तथोक्तं वाक्यप्रदीपे
१ क्रीत इति रूपं कर्मणि कर्तरि वा, तथाहि परिक्रीयते स्म परिक्रीतः कः कर्मतापन्नश्चैत्रः कं मासम् । कोऽर्थः ? मासे । यद्वा परिक्रिणीतेस्म कर्तरि कः कर्मणोऽविवक्षितत्वात् । अथात्र मासमिति कर्म विद्यते तत्कथं कर्तरि क्तः? उच्यते-मासमित्यत्र 'कालाध्वभाव.' इत्यनेनाधारस्य युगपत्कर्मसंज्ञाऽकर्मसंज्ञा च । तत्र कर्मसंज्ञायां कर्मणि द्वितीया अकर्मसंज्ञायां तु कर्तरि क्तः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org