________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । चतुर्थीविधानम्
मन्यस्याऽनावादिभ्योऽतिकुत्सने ॥ २९ ॥ [ सि० २२२६४ ]
अत्यन्तं कुत्सायां गम्यायां मन्यतेर्व्याप्याच्चतुर्थी वा स्यात् । न त्वां तृणाय तृणं वा मन्ये । नावादिगणान्नैवम् । न त्वां नावमन्नं काकं शुकं शृगालं वा मन्ये । 'हितसुखाभ्याम्' (२।२।६५) । योगे वा चतुर्थी । चैत्राय चैत्रस्य वा हितं सुखम् । आशिषि गम्यायां हितसुखभद्रायुष्यमार्थार्थैर्योगे वा चतुर्थी हितं पथ्यं सुखं भद्रं आयुष्यं क्षेमं कल्याणं अर्थः कार्यं ५ जीवेभ्यो जीवानां वा भूयात् ॥ २९ ॥
1
“मन्य०” अतीव कुत्स्यते येनेत्यतिकुत्सनं तस्मिन्मनतेराप्ये वर्त्तमानाच्चतुर्थी स्यादिति सङ्क्षेपेणाह - अत्यन्तं कुत्सायामित्यादि, न त्वां नावमित्यादि, नोवान्नयोरपि परप्रणेयताऽनायासोच्छेद्यतादिभिरतिकुत्सनत्वं भवति, परमनावादिभ्य इति वचनात् चतुर्थी न भवति । नावादयो लक्ष्यदर्शनेनानुसर्त्तव्याः । मन्यस्येति किम् ? न त्वा तृणं चिन्तयामि । श्यनिर्देशः किम् ? न त्वा तृणं मन्ये । कुत्सन इति किम् ? न १० त्वां रत्नं मन्ये-रत्नादपि अधिकं मन्ये इति प्रशंसा । कुत्स्यतेऽनेनेति करणाश्रयणं किम् ? न त्वा तृणाय मन्य इति युष्मदो न भवति । अतिग्रहणं किम् ? त्वां तृणं मन्ये, सुवर्ण तृणं मन्ये, अत्र नम् प्रयोगाभावे साम्यमात्रं प्रतीयते नत्वतिकुत्सा । कुत्सामात्रे ऽपीच्छन्त्येके - तृणाय त्वां मन्ये । तृणाय मन्यमानः सर्वान् । हरिमपि अमंसत तृणाय । न त्वां तृणस्य मन्तेति कृद्योगे पैरत्वात्षष्ठी । चतुर्थ्यपीति कश्चित्-न तब बुसाय बुसस्य मन्ता । न चैत्रस्य शुने मन्ता, न चैत्रस्य शुनो मन्तेति । उक्तकर्मणि तु न त्वं बुँसो १५ मन्यसे मया । न चैत्रः वा मन्यते मयेत्यादौ प्रथमैव । बहुवचनमाकृतिगणार्थम् । "हित०" सूत्रं स्पष्टम् । आशिषीति अत्र सूत्रम् - " तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि” ( २।२।६६ ) इति । तदिति हितसुखयोः परामर्शः, अर्थशब्दः प्रत्येकमभिसम्बध्यते हिताद्यर्थे युक्ताद्गौणान्नान आशिषि गम्यायां चतुर्थी वा स्यादिति भावः । तथैवोदाहरति - हितं पथ्यमित्यादि । आशिषीति किम् ? आयुष्यं प्राणिनां घृतम् । तत्त्वाख्याने न भवति । भद्रक्षेमार्थयोरन्यत्रैकार्थत्वेऽपि क्षेममापदोऽभावः भद्रं सम्प- २० दुत्कर्षमित्यर्थभेदाद्दितयोपादानम् - हितसुखाभ्यां पूर्वेण विकल्पः सिद्ध एव तदर्थार्थं तु ग्रहणम् । ि प्रागप्यर्थग्रहणमस्तु । सत्यम् । तदर्थानामाशिषि नियमार्थमिदम् ।
इत्यादिग्रहणात् " परिक्रयणे" ( २।२।६७) परिक्रीयते नियतकालं स्वीक्रियते येन तत्परिक्रयणं वेतनादि आदिशब्दाद्भाटकादिपरिग्रहः । तस्मिन् वर्त्तमानागौणान्नान्नचतुर्थी वा स्यात् । शताय परिक्रीतः, शतेन परिक्रीतः । सम्भोगाय परिक्रीतः 'कर्त्ताऽस्मि तव नाप्रिय' मिति भट्टिकाव्ये । सम्भोगेन वा शतादिना नियतकालं स्वीकृत इत्यर्थः । परीति किम् ? शतेन क्रीणाति, क्रयस्यात्र करणं न परिक्रयस्य । २६ च उष्णपानीयमिति कालदृष्टोऽपशब्दः । तापसश्चायं कुमारश्च तापसकुमार इति साधुः । तापसी चेयं कुमारी च तापसकुमारीति अचिकित्स्योऽपशब्दः । पानीयोष्णं कुमारतापसी चेति साधुरेव ।
१ शुकः पाठितो भणति त्वं तदपि न । २ अथ नावान्नयोरत्यन्तोपकारकत्वात्कथमतिकुत्सनलं गम्यते इत्याह ना० । ३ आदिशब्दादचेतन त्वविनश्वरत्वादिप्रहः । ४ युष्मदोऽपि मन्यव्याप्यत्यात्पक्षे चतुर्थी प्राप्नोतीत्याह कुत्स्य० । ५ कर्मणि कृत इत्यनेन तृणशब्दात् नित्यं षष्ठी, युष्मच्छन्दात्तु वैकत्रद्वयोः इति षष्ठी विकल्पाद्वितीया । यदा तु युष्मदप्रतः कर्मणि कृतः इत्यनेन नित्यं षष्ठी तदा तृणशब्दाद्वैकत्र द्वयोरित्यनेन विकल्पेन षष्टी तद्विकल्पे चतुर्थ्यपि । न तव तृणाय मन्ता तृणस्य मन्ता तृणं मन्तेति वा । ६ अजितयशोवादी दुर्गसिंहथ कर्मणि कृतः इत्यनेन षष्ठी प्राप्तौ वैकत्र द्वयोरित्यस्य तु पक्षे सिद्धैव । ७ अत्र विशेषणविशेष्यभावेन उभयमपि कर्म उक्तम् यथा कटः क्रियन्ते वीरणानि । ८ स्वीकारो त्यात्मसात्करणं परिक्रय उच्यते, परिशब्दोऽत्र प्रत्यासत्तिं द्योतयति यथा परिसहस्रा गाव इति सहस्रप्रत्यासन्नाः सम्भाव्य परिसहस्रा गाव उच्यन्ते; एवमत्रापि क्रय प्रत्यासन्नोऽल्पकालो वेतनादिना स्वीकारः परिक्रय उच्यते । तत्र यत्करणं परिक्रयक्रियायां साधकतमं वेतनादि तत्करणव्युत्पत्त्या परिक्रय उच्यते ।
Jain Education International
२३९
For Personal & Private Use Only
www.jainelibrary.org