________________
२३८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
इत्यादिग्रहणात् “श्लाघहस्थाशपा प्रयोज्ये” (२।२।६० ) ज्ञाप्ये इत्यनुवर्त्तते, श्लाघृङ् कत्थने' 'लुङ अपनयने 'ठां गतिनिवृत्तौ' 'शपी आक्रोशे' । श्लाघादिभिर्युक्ताद् ज्ञाप्ये प्रयोज्येऽर्थे वर्त्तमानाद्गौणानाम्नश्चतुर्थी स्यात् । मैत्राय श्लाघते मैत्रायात्मानं परं वा श्लाघ्यं कथयति । मैत्राय हुते ह्रोतव्यं किञ्चिन्मैत्रं ज्ञापयति । मैत्राय तिष्ठते "ज्ञीप्सास्थेये" (३।३।६४) इत्यात्मनेपदम् , स्थानेनात्मानं ५ज्ञापयति प्रकाशयतीति । मैत्राय शपते "शप उपलम्भने" (३।३।३५) इत्यात्मनेपदम् । वाचा मात्रादिशरीरस्पर्शनेन नाहं जाने न मया कृतमिति मैत्रं ज्ञापयति प्रकाशयतीति । श्लाघाह्नवस्थानशपथान् कुर्वाण आत्मानं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः । प्रयोज्य इति किम् ? मैत्रायात्मानं श्लाघते । अत्र ह्यात्मा ज्ञाप्यप्रयोज्यो न भवति, जानातेः कर्मत्वादिति प्रयोज्यग्रहणात्ततो न चतुर्थी ।
मैत्राय शतं ह्रते, शते न चतुर्थी । केचित्तु द्विकर्मकोऽयं ज्ञापिस्तत्र केचिद्यस्मै आख्यायते तं ज्ञाप्यं सम्प्र१० दानत्वेन प्रतिपन्नाः । केचिद्य आख्यायते तमिति । "तुमोऽर्थे भाववचनात्" (२।२।६१) क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घनादयः प्रत्यया विधास्यन्ते तदन्ताद्गौणानाम्नः स्वार्थे चतुर्थी स्यात् । पाकाय व्रजति, इज्यायै व्रजति, पक्तुं यष्टुं वा व्रजति इत्यर्थः । तादर्थ्यस्य प्रत्ययेनैवोक्तत्वात् चतुर्थी प्राप्नोतीति शेषषष्ठी, हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीया स्यादिति चतुर्थ्यर्थं वचनम् ॥ २६ ॥
गम्यस्याप्ये ॥ २७ ॥ [सि० २२२६२] यस्यार्थो गम्यते न च शब्दः प्रयुज्यते तस्य तुमो व्याप्याच्चतुर्थी स्यात् । फलेभ्यो व्रजति । गम्यस्येति किम् ? फलान्याहर्तुं याति ॥२७॥
"गम्य.” गम्यस्य तुम इति किम् ? प्रविश पिण्डी द्वारम् , अत्र भक्षय विधेहीति च गम्यम् । वाक्येषु वाक्यैकदेशा अप्यर्थतः प्रकरणाच्छब्दान्तरसन्निधेर्वाऽवगमिततदर्थाः साधव इष्यन्ते । यदुक्तम्२० वाक्येषु वाक्यैकदेशा वर्त्तन्ते पदेषु पदैकदेशाः। तत्र प्रविशेर्गृहं कर्म पिण्ड्यपि । पिण्डीद्वारे तु भक्षयति पिदधात्योर्गम्यमानयोव्याप्ये न तु गम्यस्य तुमो व्याप्ये इत्यत्र चतुर्थी न भवतीति ॥ २७ ॥
गतेर्नवाऽनाते ॥ २८॥ [सि० २।२।६३] गतिः पादविहरणम् , तस्या आप्यादप्राप्ताचतुर्थी वा स्यात् । ग्रामं ग्रामाय वा याति ॥२८॥
“गते.” गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात्पादविहरणरूपैव गतिर्गृह्यते, ज्ञानादिव्याप्य२५ स्यानाप्तत्वासम्भवादित्याह-गतिः पादविहरणमिति । एवं स्त्रियं गच्छतीत्यत्र मैथुनार्था गतिः, मनसा मेरुं
गच्छतीत्यत्र ज्ञानार्थेत्यत्र चतुर्थी न भवति । आप्ये इत्येव-ग्रामादागच्छति । अनाप्त इति किम् ?
पन्थानं गच्छति । कृद्योगे तु परत्वात्षष्ठयेव ग्रामस्य गन्ता । द्वितीयैवेत्यन्ये-ग्रामं गन्ता । चतुर्थी २८ चेत्यैन्ये । ग्रामं गन्ता । ग्रामाय गन्तेति ।। २८ ॥
-१ शब्दोऽर्थवानप्रयुज्यमानः प्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चार्थप्रकरणशब्दान्तरसन्निधानैः प्रतीयमानार्थः स च गम्य इत्युच्यते । २ ननु फलार्थ व्रजतीति तादयें एव चतुर्थी भविष्यति किमनेन ? उच्यते-व्रज्यायाः फलाहरणार्थतायां विश्रामोऽस्ति न तु फलार्थतायामिति न सिद्ध्यति । ३ सारसङ्ग्रहकारादयः, ते हि 'गत्यर्थकर्मणि द्वितीयाचतुर्यो' इति सूत्रेण कर्मणि द्वितीयायां प्राप्तायां तदपवादो वैकल्पिकी चतुोरभ्यते इति पक्षे द्वितीया सिद्धैवेति द्वितीयाग्रहणात् ग्रामं गन्तेत्यत्र कृतः कर्मणि अपवादभूतामपि षष्ठीं बाधित्वा द्वितीयैव भवति, चतुर्थी तु षष्ट्या परत्वाद्वाध्यत एवेति मन्यन्ते। ४ उत्पल इत्यर्थः । स एवं मन्यते द्वितीयाविषय इयं वैकल्पिकी चतुर्थ्यारभ्यते, द्वितीयायाश्चापवादात्कुतोऽपि विषय उपनत इति तद्विषये पक्षे चतुर्थी प्रवर्तत एव । ५ एतेषु चायमस्मदभिमतः षष्ठीपक्षः, श्रीशेषभट्टारकस्यापि सम्मतः । कथं हि शब्दानां साधलं यतिबलेन शक्यं व्यवस्थापयितुम् । यत्र तुल्यपदार्थे उष्णं च तदुदकं च उष्णोदकमिति साधुः, उष्णं च तत्पानीयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org