________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । चतुर्थीविधानम् २३७ किन्तु क्रियासम्बन्धमा विवक्षितमिति न चतुर्थी । कृप्यर्थैर्विकारे-मूत्राय कल्पते यवागूः । अर्थग्रहणात् उचाराय सम्पद्यते यत्रानम् , तद्विकाररूपमापद्यते इत्यर्थः । गौणादित्येव-मूत्रमिदं सम्पद्यते यवागूः, अत्र विकारविकारिणोरभेदविवक्षया विकारः प्रधानमेवेति मूत्रस्य क्रियान्वयित्वाद्गौणत्वाभावः । मूत्रं सम्पद्यते यवाग्वा इत्यपायविवक्षायां पञ्चमी, यवाग्वा अपगच्छविदं मूत्रं सम्पद्यतेत्यपायविवक्षा । 'बॅन् स्थाने' ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते इत्यर्थः, ततो ध्रियमाणं प्रयुक्त इति णिगि धारिस्ततो५ धारिणा धातुना योगे उत्तमणे धनिके चतुर्थी "अधमर्णो प्राहकः स्यादुत्तमर्णस्तु दायक” इति । ___ इत्यादिशब्दानुवर्त्तनात् । “प्रत्याङः श्रुवार्थिनि" (२।२।५६) प्रत्याभ्यां परेण शृणोतिना युक्तादर्थिनि वर्तमानागौणानाम्नश्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति याचितोऽयाचितो वा, प्रतिजानीते इत्यर्थः । “प्रत्यनोर्गुणा ख्यातरि" (२।२।५७) प्रत्यनुभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानाद्गौणान्नाम्नश्चतुर्थी स्यात् । आचार्याय प्रतिगृणाति अनुगृणाति । आचार्योक्तमनुवदति प्रशंसन्तं १० वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? आचार्य गृणाति, आचष्टे इत्यर्थः । अत्राचार्यमाचक्षमाणमिति प्रतिपत्तव्यमन्यथा व्यङ्गविकलत्वं स्यात् । “यद्वीक्ष्ये राधीक्षी” (२।२।५८) वीक्ष्यं सन्देहपूर्वकं निरूपणीयमदृष्टमनिष्टानिष्टफलं पुण्यपापरूपमप्रत्यक्षं पराभिप्रायादिकं वा तस्यैव निरूपणाहत्वात् , 'राधंच् वृद्धौ' 'ईक्षि दर्शनाङ्कयोः' यत्सम्बन्धिनि वीक्ष्ये राधीक्षी वर्तेते तस्मिन्वर्त्तमानागौणानान्नः सामर्थ्यात् राधीक्षीभ्यामेव युक्ताचतुर्थी स्यात् । मैत्राय राध्यति ईक्ष्यते, तस्य दैवं पर्यालोचयती-१५ त्यर्थः । स्त्रीभ्य ईक्ष्यते-स्त्रीणामभिप्रायः कीदृश इति विमतिपूर्वकं निरूपयतीत्यर्थः । "ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् । सङ्घख्यसि मृषा किं त्वं दिक्षुर्मा मृगेक्षणे" इति भट्टिकाव्ये परस्त्रीणामभिप्राये सन्देहादीक्षितव्यं किमेवं करोषि नवेति तद्रक्षसां कुलधर्मो न दोषः । देवे एवेक्ष्ये इच्छन्त्येके स्त्रीभ्य ईक्ष्यते इत्यादौ न मन्यन्ते । राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्येके-मैत्राय राधयति साधयति पश्यति जानीते इति चोदाहरन्ति । यद्हणं किम् ? मैत्रस्य शुभाशुभमीक्षते-शुभाशुभान्मा भूत् । मैत्रात्तु २० राधीक्षीभ्यां योगादेव न भवति । एवं तर्हि मैत्राय राध्यतीत्यादायपि सम्बन्धाभावान्न स्यात् । न । तत्र मैत्रेणैव सह राधीक्ष्योः सम्बन्धो विवक्षितोऽन्यस्याश्रुतत्वात् । वीक्ष्यग्रहणं किम् ? मैत्रमीक्षते । राधीक्ष्यर्थविषयाद्विप्रष्टव्याविच्छत्यन्यः, लाभाय राध्यति राधयति साधयति ईक्षते पश्यति ॥ २५ ॥
उत्पातेन ज्ञाप्ये ॥ २६ ॥ [सि० २२२२५९] उत्पात आकसिकं निमित्तम् , तेन ज्ञाप्याचतुर्थी सात् । वाताय कपिला विद्युत् ॥ २६ ॥ २५
"उत्पा०" वातायेति. “वाताय कपिला विद्युत्, आतपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता स्मृता" ॥ १॥ उत्पात इति किम् ? राज्ञ इदं च्छत्रमायातं विद्धि राजानम्, नात्र छत्रमुत्पातः, उत्पातो हि नाम शुभाशुभसूचकः कादाचित्को महाभूतपरिणाम उच्यते इति राज्ञश्चतुर्थी न भवति ज्ञाप्यज्ञापकसम्बन्धविवक्षया षष्ठ्यपवादो योगः।
२९
१ अधमलाद्याचमाने महत्त्वादयाचमानेऽपि केनाप्याकारादिना खामिलापं समर्पयति द्विजादी ओमिति तस्य प्रतिजानीते प्रतिपद्यते अभ्युपगच्छतीत्यर्थः । २ विविधा विशेषानुलम्भादेकस्मिन्वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मतिर्विमतिः संदेहशानमिति यावत्, तत्पूर्वक निरूपणीयं वीक्ष्यम् विप्रश्नविषय (विचारविषयो देवादिलाभालाभादि ) इति यावत् , तद्विषया क्रियाऽपि पोलोचनादिका वीक्ष्यम् । ३ शुभाशुभम् । ४ नलभिप्रायादी । ५ शाकटायनाः । ६ चान्द्राः । राधिरपरपठितथुरादिर्णिगन्तो वा, साधिर्णिगन्त । ७ रनमतिबौद्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org