________________
२३६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमा भूविति यं प्रति कोप इति सामान्येन विशेषणमुपात्तमन्यथाऽव्यभिचाराभावादिदमनुपादेयं स्यात् । कोपशब्दोऽपि द्विप्रकारोऽत्र परिगृहीतो मुख्यार्थो गौणार्थश्च । गौणार्थत्वं च तस्य कार्ये कारणोपचारात् कोपकार्यद्रोहाचर्थवृत्तित्वात् । सामान्यविवक्षया चैकवचनम् । एवं च भार्यामीर्ण्यतीति कोपकारणिकाया ईर्ष्याया भार्यायामसम्भवान प्रवर्त्तते सम्प्रदानसंज्ञा । अत्र हि परकर्तृकदर्शननिमित्ता भार्यायामा५मैनामन्योऽद्राक्षीदिति । तथा शिष्यस्य कुप्यतीत्यादिषु पूर्वोत्तरोदाहरणेषु क्रोधादीनामकोपप्रभवत्वात्स. म्प्रदानसंज्ञाभावः । अत्रापि सम्प्रदानसंज्ञया कर्मसंज्ञाया बाधितत्वादावे आत्मनेपदादयः कर्तरि क्तश्च सिद्ध्यति । मैत्रायेय॑ते चैत्रेण मैत्रायेर्षितव्यं मैत्राय दुरीयं मैत्राययितश्चैत्रः । एवमसूय्यते असूयितव्यम् , दूरसूयम् , असूयितश्चैत्रः । चौरस्य द्विषन्नित्यत्र द्विषः क्रुधाद्यर्थत्वाचौरस्य कथं सम्प्रदानसंज्ञा न भवति ? उच्यते-अप्रीत्यर्थत्वात् , अयमर्थः-अत्रानभिनन्दने द्विषिर्वर्त्तते यथौषधं द्वेष्टीति ॥२२॥
___नोपसर्गाजुद्द्बुहा ॥ २३ ॥ [ सि० २।२।२८ ] सोपसर्गाभ्यां वहिभ्यां योगे तु न । मैत्रममिक्रुध्यति ॥ २३ ॥
"नोप०" यद्यप्येतावनुपसर्गावकर्मको तथापि सोपसर्गों सकर्मकौ भवतः । मैत्रमभिक्रुध्यति मैत्रमभिगम्याभिमुखीकृत्य वा क्रुद्ध्यति इति । अकर्मका अपि हि धातवः सोपसर्गास्सकर्मका भवन्तीत्यत्र "कर्मणि" (२।२।४०) इति द्वितीया ॥ २३ ॥
तादर्थे ॥ २४ ॥ [सि० २।२।५४ ] तसै इदमिति गम्यमाने चतुर्थी स्यात् । यूपाय दारु । रन्धनाय स्थाली ॥ २४ ॥
"ताद." किश्चिद्वस्तु सम्पादयितुं यत्प्रवृत्तं तत्तदर्थम् , तस्य भावे तादर्थे सम्बन्धविशेषे द्योये गौणानाम्नः षष्ठ्यपवादश्चतुर्थी स्यात् । यूपायेति-एवं कुण्डलाय हिरण्यम् । तादर्थे इति कृत्तद्धितसमा
सेषु सम्बन्धाभिधानं भावप्रत्ययेनेति समवायिकारणनिमित्तकारणसाधारः कार्यकारणभावश्चतुर्थ्या २० बोध्यते । तत्र यूपादेर्दादिकं समवायिकारणम् , रन्धनादेः स्थाल्यादिकं निमित्तकारणमिति । ननु
तस्मै इदं तदर्यमिति सत्यां चतुर्थ्या समासः, सति च समासे तदुपादाने चतुर्थीविधानमितीतरेतराश्रयादप्रसिद्धिनिर्देशस्येति । उच्यते । आचार्यप्रवृत्तिापयति भवत्यर्थशब्दयोगेन चतुर्थीति, यदयं तादर्थ्य इत्यर्थशब्देन समासं शास्ति । षष्ठी समासो वा, सम्बन्धसामान्यविवक्षायामस्त्येव षष्ठी, यथा
गुरोरिदं गुर्वर्थमिति ॥ २४ ॥ २५ रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥ २५॥ [सि० २२२१५५]
रुच्यर्थैः कृप्यर्थैर्धारिणा च योगे यथासङ्ख्यं प्रेयविकारोत्तमणेभ्यश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः। मूत्राय कल्पते यवागूः । चैत्राय शतं धारयति ॥ २५॥
"रुचि." रुच्यर्थैरिति रुचिसमानार्थैः, कृप्यर्थैरिति कृषिसमानार्थैः । यथासङ्ख्यमिति रुच्यर्थैः प्रेये प्रीयमाणे प्रीणाते: “य एचातः” (५।११२८) इति कर्मणि यप्रत्यये रूपम् । चैत्राय रोचते धर्म इति ३० रुचि अभिप्रीत्यां च । एवं 'ध्वदि आखादने' मैत्राय स्वदते दधि तस्याभिलाषमुत्पादयतीत्यर्थः । प्रेय
सम्बन्धादभिलाषार्थस्य रुचेम्रहणादिह न भवति-ममैतद्रोचते, तव कथमिति प्रतिभातीत्यर्थः । कथं ३२रोचते मम घृतं सह मुद्रेरिति । सम्बन्धविवक्षायामियं षष्ठी अत्र सत्यपि प्रेयत्वे प्रेयता न विवक्षिता,
१ ननु कोपः क्रोध एवेति मेदाभावात् कथं पौर्वापर्यम् ? उच्यते । प्रथमामनुद्धता कोपावस्थां द्वितीयां चोद्भुतां विकृतवाकायव्यापारानुमीयमानामाश्रिय नाकुपितः कुथ्यतीसदुच्यते इत्यदोषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org