________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशै कारकप्रक्रिया । सम्प्रदानस्खरूपम् । चतुर्थीविधानम्
"
२३५ भवति । एवं क्रिया करणभूतया कर्त्ता यमभिसम्बध्नाति सोऽपि सम्प्रदानं भवति । यथा पत्ये शेते इत्युपसर्पणाने शयने शक्तिर्वर्त्तते, अत्रापि शयनक्रियामनिराकुर्वन् अनुमन्यमानो वा पतिः सम्प्रदानं भवति । एवं श्राद्धाय निगृहते - नास्तिकत्वान्निन्दति । युद्धाय सन्नह्यते सन्नहनाङ्गे निश्चये सन्नहिर्वर्त्तते सन्नहनपूर्वकं निश्चयं करोतीत्यर्थः, न कर्त्तव्यमनेनैव सिद्धत्वात् । अत्र कर्मग्रहणेनैव तत्रेण क्रियापि गृहीता क्रियां हि लोके कर्मेत्युपचरन्ति, कां क्रियां करिष्यति किं कर्म करिष्यसीति । एवमपि कृत्रिमा- ५ कृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवतीति न प्राप्नोति । नैवम् । क्रियापि हि कृत्रिमं कर्म । तथापि न सिद्ध्यति पत्ये शेते इत्यादौ क्रियान्तरानुपादानात् एकस्या एव क्रियायाः कर्मकरणभावस्यैकदात्मन्येव विरोधात् । किञ्च कर्तुर्व्याप्यं कर्मेत्युच्यते कथं च नाम क्रिया क्रियाया व्याप्या स्यादिति । अत्रोच्यते । क्रियापि सन्दर्शनप्रार्थनाध्यवसायादिक्रियाभिरवश्यं पूर्वभाविनीमिरातुमिष्टत्वात्कर्म भवति । तथाहिप्रेक्षापूर्वकारी बुद्ध्या कचिदर्थं पश्यति; सन्दृष्टे प्रार्थना, प्रार्थनायामध्यवसायः, अध्यवसाये आरम्भ ः, १० आरम्भे निवृत्तिः, निवृत्तौ फलावाप्तिरित्येवं क्रियापि कृत्रिमं कर्मेति प्रतीयमानक्रियापेक्षस्यापि प्रविश पिण्डीमित्यादाविव कारकत्वाव्याहतेः । नन्वेवं ग्रामं गच्छतीत्यादौ ग्रामादेरपि क्रियाभिसम्बद्ध्यमानस्य सम्प्रदानसंज्ञाप्रसङ्गः । नैष दोषः । यदा सन्दर्शनादयो धात्वर्थाद्भेदेन विवक्ष्यन्ते, तदा तेषां प्राप्तकर्मभावया क्रियया यदभिसम्बद्ध्यते तस्येयं सम्प्रदानसंज्ञा, अत्र तु भेदस्याविवक्षितत्वाद्गम्यर्थत्वात्सन्दर्शनादीनां गमिवाच्यतैव । गमनं ह्यत्र विततविततमन्तर्भूतसन्दर्शनादिकं विवक्षितम्, तत्कथमात्मन एवात्मना १५ व्याप्यमानता स्यात्, सा च भेदाभेदविवक्षा प्रयोगदर्शनवशेन नियतविषयैवाश्रीयते इति प्रयोगासङ्करः । कर्माभिप्रेय इत्यत्र केवलस्य ईयतेर्गमनं वाच्यमित्यभिग्रहणं विशिष्टसम्बन्धप्रतिपत्त्यर्थम् विशिष्टश्च सम्बन्धः कर्त्तुः श्रद्धानुग्रहापायापगमादिकामनाजनितस्ततो रजकस्य वस्त्रं ददाति, नतः पृष्ठं ददाति, राज्ञो दण्डं ददातीत्यादौ वस्त्रादिकर्मणा रजकादीनामभिसम्बध्यमानत्वेऽपि सम्प्रदानसंज्ञा न भवति । वाताय चक्षुर्ददाति, छात्राय चपेटां ददाति इत्यादौ तु श्रद्धा दिजनितसम्बन्धस्य विद्यमानत्वाद्भवति । यत्तु कैश्चिद - २० न्वर्थसंज्ञाविज्ञानाद्ददातिक्रिया विषयैव सम्प्रदानसंज्ञेत्यभ्युपगतं दानं च स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्तेति प्रत्यज्ञायि; तदुभयमपि न युक्तम्; अन्यत्रापि भाष्यकारेण संज्ञाया अभ्युपगमात्तथा स्वत्वनिवृत्त्यभावेऽपि ददातेः प्रयोगस्य दर्शनाद्यथा न पापाय मतिं दद्यात् । खण्डिकोपाध्यायस्तस्मै चपेटां ददाति चेति । “चतुर्थी”। सोदाहरणं सूत्रं सुगमम् । “स्पृहे०” स्पृहयतीति अत्रादन्तत्वात्स्पृहेरकारलोपस्य "स्वरस्य परे प्राग्विधौ ” ( ७|४|११० ) इति स्थानिवद्भावाल्लघूपान्त्यगुणाभावः । अत्र हि साध्वादेः २५ कर्त्तुः स्पृहादिक्रियाव्याप्यत्वान्नित्यं कर्मसंज्ञायां प्राप्तायां पक्षे सम्प्रदानसंज्ञा विधीयते, तस्यां च धातोरकर्मकत्वाद्भावे आत्मनेपदादयः कर्त्तरि च क्तः सिद्ध्यति, पुष्पेभ्यः स्पृह्यते मैत्रेण पुष्पेभ्यः स्पृहयितव्यम्, पुष्पेभ्यः सुस्पृहम्, पुष्पेभ्यः स्पृहयिता मैत्र इति । " क्रुद्दु०” 'क्रुधंच कोपे' 'द्रुहौच् जिघांसायाम्' 'सूर्क्ष्य-ई-ई-ईर्ष्यार्थाः' असूयेति 'असुः सौत्रः कण्ड्डादिर्यगन्तः' ॥ क्रोधोऽमर्षः, द्रोहोऽपचिकीर्षा, परसम्पत्तौ चेतसो व्यारोष ईर्ष्या, गुणेषु दोषाविष्करणमसूया, एतदर्थे - ३०
"0"
1
तुभिर्योगे यं प्रति कोपः स सम्प्रदानम् । मैत्राय क्रुध्यतीत्यत्रार्थग्रहणात् कुप्यति रुष्यतीत्यादि । द्रुह्यतीत्यत्रापचिकीर्षति अपकरोतीत्यादि । ईर्ष्यतीत्यत्र सूक्ष्र्क्ष्यति ईर्क्ष्यतीत्यादि । यं प्रतीति किम् ? यस्मिन्नित्युच्यमाने कर्त्तुरपि सम्प्रदानसंज्ञा स्यात् - मैत्रेण क्रुध्यते । कोप इति किम् ? शिष्यस्य कुप्यति चिनयार्थम् । ननु कोपाद्रोहाद्यो भिन्नस्वभावा व्याख्यातास्तत्कथं तदर्थानां यं प्रति कोप इति सामान्येनैतद्विशेषणं घटते ? यं प्रति द्रोहो यं प्रतीर्ष्या यं प्रत्यसूयेत्येव घटते । नैष दोषः । क्रोधस्तावत्कोप एव, द्रोहादयोsपि द्विप्रकाराः केचित्को पहेतुकाः केचिद्वस्त्वन्तर हेतुकास्तत्रेह पूर्वेषां ग्रहणं यथा स्यादुत्तरेषां ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org