________________
२३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुप्रसितः, प्रकर्षेण सितो बद्धः 'किंग्ट् बन्धने' इत्यस्य रूपम्, नित्यप्रसक्त इत्यर्थः । गृहेण गृहे वा उत्सुकः, केशर केशेषु वाऽवबद्धः । अवबद्धोत्सुकशब्दसाहचर्यात् क्रियार्थ एव प्रसितशब्दोऽत्र ग्राह्यः । “व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम्" (२।२।५०) व्याप्ये वर्त्तमानेभ्यो द्विद्रोणाविभ्यो वीप्सायां वा तृतीया भवति । द्विद्रोणेन धान्यं क्रीणाति द्विद्रोणं द्विद्रोणं क्रीणाति ५तृतीया वीप्सायां विहितेति तृतीया, तस्य द्विर्वचनं न भवति; द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विर्वचनं भवति । द्विद्रोणादयः प्रयोगगम्याः । आदिशब्दस्य प्रकारार्थत्वात् येभ्यो वीप्सायां प्रयोगे तृतीया दृश्यते ते द्विद्रोणादयः, न तु गर्गादिवत्सन्निविष्टा इति । “समो ज्ञोऽस्मृतौ वा" (२।२।५१) अस्मृतौ वर्तमानस्य सम्पूर्वस्य जानातेर्यव्याप्यं तत्र वर्तमानाद्गौणान्नाम्नः तृतीया
वा स्यात् । मात्रा सञ्जानीते मातरं सञ्जानीते “सम्प्रतेरस्मृतौ” (३।३।६९). इत्यात्मनेपदम् । सम १० इति किम् ? मातरं जानाति । ज्ञ इति किम् ? मातरं संवेत्ति । अस्मृताविति किम् ? मातरं सञ्जानाति मातुः सञ्जानाति-स्मरतीत्यर्थः । व्याप्ये इति किम् ? मातरं वरेण सञ्जानाति । करणे विकल्पो न भवति । मातुः संज्ञातेति कृतिपरत्वात् षष्ठी। “दामः सम्प्रदानेऽधर्ये आत्मने च" (२।२।५२) सम्पूर्वस्य दामः सम्प्रदानेऽधर्थेऽधर्मरूपे वर्तमानान्नाम्नस्तृतीया स्यात्तत्सन्नियोगे च दामः आत्मनेपदं भवति । दास्या सम्प्रयच्छते, कामुकः सन् द्रव्यं दास्यै ददातीत्यर्थः । दाम इति किम् ? दास्यै १५सन्ददाति । सम्प्रदान इति किम् ? द्रव्यं वृषल्या सम्प्रयच्छते इत्यत्र कर्मणि तृतीया मा भूत् । अधर्म्य
इति किम् ? पत्यै सम्प्रयच्छति । सम इत्येव-दास्यै प्रयच्छति-इह सम्पूर्वस्य दामः प्रशब्दव्यवधानमन्तरेण प्रयोगाभावात्तव्यवधानेऽपि भवति । तदुक्तं हैमबृहन्न्यासे-नहि तव्यवधानमन्तरेण सम्पूर्वस्य दामः संयच्छतीति प्रयोगो यत्र त्वस्ति तत्र यमेरेव; एवं च येन नाव्यवधानं तेन व्यवहितेऽपीति वचनप्रामाण्यात्प्रशब्देन व्यवधानमाश्रीयत इति । कौमुद्यां तु अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे २० तृतीया-दास्या संयच्छते कामुकः, धर्मे तु भार्यायै संयच्छति इत्युक्तम् ॥ २१ ॥
कर्माभिप्रेयः सम्प्रदानम् ॥ २२ ॥[सि. २२२२२५] कर्मणा व्याप्येन क्रियया वा योऽमिसम्बध्यते स सम्प्रदानं स्यात् । “चतुर्थी" ( २।२।५३) सम्प्रदाने । देवाय बलिं दत्ते । राज्ञे कार्यमाचष्टे । पत्ये शेते । "स्पृहेव्योप्यं वा" (२।२।२६)
सम्प्रदानम् । साधुभ्यः साधून् वा स्पृहयति । (क्रुदुहेासूयाथैोंगे यं प्रति कोप: २५ (२।२।२७) स सम्प्रदानम् ) मैत्राय क्रुध्यति । द्रुह्यति ॥ २२ ॥
"कर्मा०" कर्मणेत्यादि । अयं भावः-कर्मणा व्याप्येन क्रियया वा करणभूतेन का यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः सम्प्रदानकारकं स्यात् । ननु कर्मणः कथं करणत्वम् ? उच्यते । क्रियाभेदात् यथा देवाय बलिं दत्ते इत्यादौ ददातिना ह्याप्नुमिष्टत्वावल्यादिरर्थः
कर्म, तेन देवादिरभिसम्बध्यते इत्यभिसम्बन्धेन साधकतमत्वात्करणम् , यथा निपीयमानेन मधुना मत्त ३० इति । अवान्तरव्यापारवत एव कारकत्वादस्यावान्तरव्यापाराः अनिराकरणं प्रेरणमनुमतिश्च तान् कुर्वस्त्यागादौ कारकत्वं लभते । यथा देवाय बलिम्, द्विजाय गाम् , याचकायार्थ दत्ते । अत्र देवो बलिकर्मकं दानमनिराकुर्वन् , द्विजश्व गोकर्मकं दानमनुमन्यमानः, याचकादिश्वार्थादिकर्मके दाने प्रेरणा कुर्वस्तत्र निमित्तं भवति । तथोक्तम्
"अनिराकरणात्कर्तुत्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम् ॥१॥ ३५ एवं राज्ञे कार्यमाचष्टे-अत्र कार्यकर्मकमाचक्षाणमनुमन्यमानो अनिराकुर्वन् वा राजा सम्प्रदानं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org