________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । तृतीयाविधानम् २३३ क्षितः पित्राविरभिधायां प्रधानमितरदप्रधानं तत्र षष्ठयां प्राप्तायां तृतीया। "सहाथै" (२।२४५) इत्यत्रार्थग्रहणात्सहशब्दाप्रयोगेऽपि तदर्थसद्भावे तृतीया भवति, तदप्रयोगे तदर्यसद्भावो द्विधा भवतिपर्यायशब्दप्रयोगादर्थप्रकरणादेव तदर्थप्रतिपत्तेः। तत्र पुत्रेण समं सार्द्ध साकममा युगपदिति पर्यायशब्दप्रयोगे । अर्थप्रकरणादेस्तदर्थावगमे तु पुत्रेणागतः वृद्धो युनेत्यादि, सुखेनास्ते, दुःखेन जीवति, कष्टेन कामति, अनायासेन करोतीत्यादौ आस्यादिक्रियादिभिः सह सुखादेः सहार्थोऽस्ति । क्रियाविशेषणत्व-५ विवक्षायां द्वितीयैव सुखमास्ते, दुःखं जीवतीत्यादि । गौणादित्येक-"सहोमौ चरतो धर्मम्" अनोभयोरपि प्राधान्येन क्रियायोगान्मुख्यत्वमिति । चैत्रमैत्राभ्यां सह कृतमिति तु कर्तर्येव तृतीया ॥ १९ ॥
यद्भेदैस्तद्वदाख्या ॥ २०॥ [सि० २।२४६] यस्य भेदिनो मेदैः प्रकारैस्तद्वतोऽर्थस्य प्रसिद्धिः स्यात् ततस्तृतीया स्यात् । अक्ष्णा काणः । प्रकृत्या दर्शनीयः । आख्येति प्रसिद्धिपरिग्रहार्थम् । तेनाक्ष्णा दीर्घ इति न स्यात् ॥२०॥ १० ___ "यद्भे०” यस्येत्यादिभेदिनः काणत्वादिविशेषवतो यस्याक्ष्यादेरवयवस्य भेदैविशेषैः काणत्वादिभिस्तद्वतोऽक्ष्यादिमतश्चैत्रादेरर्थस्य काणोऽयमित्यादिप्रसिद्धिः स्यात्ततस्तृतीया स्यादिति भावः। अक्ष्णा काण इति । एवं पादेन खञ्जः, हस्तेन कुणिः, शिरसा खल्वाटः, प्रकृत्या दर्शनीयः । प्रायेण वैयाकरण: प्रायेणेति स्वभावेन । गोत्रेण काश्यपः, जात्या ब्राह्मणः, जात्या सुशीलः, स्वभावेनोदारा, निसर्गेण प्राज्ञः, वर्णेन गौरः, स्पर्शन शीतः, वचनेन मृदुः, रसेन खादुः, मुखेन सरूपः, उरसा विशालः, बाहुभ्यां १५ दृढः । सर्वत्र पुरुषस्तद्वान् सम्बध्यते । ननु प्रकृत्या दर्शनीयः प्रायेण वैयाकरण इति युक्तः प्रयोगः, दशेनीयत्वं प्राकृतमन्यच्च वैयाकरणत्वं च प्रायिकमन्यच्च स्यात्तत्रेतरव्युदासार्थ प्रकृत्या प्रायेणेति चाsर्थवत् । काणादिस्त्वक्ष्यादिभिरेव भवतीत्यव्यभिचारेण प्रतीतेरक्ष्यादीनां प्रयोग एवायुक्तः क तृतीया स्यादिति । अत्रोच्यते । लोकोऽत्र पर्यनुयोक्तव्यो योऽर्थवतोऽनर्थकतामनपेक्ष्य प्रतीतेऽपि शब्दान् प्रयुक्ते, लोके च न सर्व एव सूक्ष्मेक्षिकया शब्दान् प्रयुक्त, यस्त्वेवं समीक्ष्यते स न प्रयुते । तत्रापि चोपचरि-२० तार्थनिवृत्तिरक्ष्णेत्यादिप्रयोगे प्रयोजनम्-सत्यमयं काणो नतूपचारत इति । कृतभवत्यादिक्रियाध्याहारेण कर्तृकरणयोस्तृतीया सिद्धैव, सम्बन्धषष्ठीनिवृत्त्यर्थं तु वचनम् ॥ २०॥
कृतायैः ॥ २१॥[सि० २२२१४७] एमिनिषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । किंगतेन ॥२१॥ इति तृतीया ।
"कृता०" कृतम् भवतु अलम् किम् ; एवं प्रकाराः कृतादयो निषेधार्थाः । नतु गर्गादिगणवत्सन्निविष्टाः २५ केचन । निषेधार्थवृत्तित्वं च कृतादीनामनेकार्थत्वाल्लक्षणातो वा स्यात् । किं गतेनेति-नायं प्रश्न किं शब्दः, किं तर्हि ? निषेधे; यद्वा प्रभार्थवृत्तिरेवायं प्रक्रमात्तु निषेधप्रतीतिः सामर्थ्याक्षिप्ता लक्षणया नतु शाब्दीति युक्ततरः पक्षः । अत्र प्रागुक्केत्यादिशब्दानुवर्तनात् "काले भानवाऽऽधारे" (२।२।४८) काले वर्तमानानक्षत्रवाचिनो गौणानाम्नः आधारे तृतीया वा स्यात् । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः "चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते" ( ६।२।६) इत्यण तल्लुप् च ।३० पुष्येण पुष्ये वा पायसमभीयात् । काल इति किम् ? पुष्येऽर्कः । स्थाल्या पच्यत इत्यादिवदाधारस्य करणविवक्षायां तृतीया सिद्ध्यति, सम्बन्धविवक्षायां तु षष्ठी मा भूदिति वचनम् । “प्रसितो. त्सुकावबद्धः” (२।२।४९) एतैर्युक्तादाधारे वर्तमानागौणानान्नस्तृतीया स्यात् । केशैः केशेषु३३ १ वैकृतम् ।
है प्रका० पूर्वा० ३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org