SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २३२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु "हेतु०" । हेत्वादीन व्याचष्टे-तत्रेत्यादि । फलं कार्यम् , तस्य साधनं निष्पादनं कारणमिति यावत् ; तत्र योग्यः सामान्यतो दृष्टसामर्थ्यः, योग्यग्रहणमन्तरेण तु फलसाधन इत्युच्यमाने यः फलं साधयति क्रियाविष्टस्तत्र प्रतिपत्तिः स्यात्, योग्यग्रहणे तु योग्यतामात्रप्रतिपत्तावकुर्वन्नपि तत्फलं हेतुरिति हेतुत्वं फलसाधनयोग्यत्वं तेन रूपेण पदार्थों हेतुरुच्यते इति हेतुतृतीयया, तत्र तस्य योग्यतामात्रं द्योत्यते ५तथा च धनादीनि कुलमकुर्वन्त्यपि योग्यतामात्रेण तृतीयामुत्पादयन्ति । यत्रापि क्रिया दृश्यते अन्न वसतीति तत्रापि क्रियायामन्नादेर्योग्यतामात्रविवक्षयैव हेतुतृतीया, प्रकृष्यमाणन्यापारविवक्षायां तु करणे तृतीयेति । द्रव्यादिसाधारणं च हेतुत्वं करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः पुण्येन दृष्टो जिनः । फलमपीह हेतुः अध्ययनेन वसति । तथोक्तम्-निर्व्यापारमपि हेतुत्वं भवति; करणत्वं तु क्रियायां एव व्यापारवद्भवतीत्यनयोर्विशेष इति कौमुद्याम् । दानेनेति अत्र १० भोगलाभे दानस्य शुभकर्मोपार्जनद्वारा हेतुत्वमिति शुभकर्मोपार्जनमवान्तरव्यापारः । काष्ठानां पचिक्रियायां ज्वलनमिव अवान्तरव्यापारशालिन एव कारकत्वादिति । *किञ्चित्० सामान्यस्य भेदको धर्मः प्रकारो यथा-अनुष्यसामान्यस्य भेदकश्छात्रत्वादिको धर्म इति । इमं कश्चित्प्रकारं भूत आपन्न इत्थम्भूतः स लक्ष्यते येन तदित्थम्भूतलक्षणम् , यथा छात्रत्वादिकं प्रकारमापनस्य मनुष्यस्येत्यर्थः, कमण्डल्वादिलक्षणं ततस्तृतीयेति कमण्डलुनेत्युदाहरणम् । ननु कमण्डल्वादिलक्षणस्य हेतुत्वमप्यस्तीति १५ तद्वारेणैव तृतीया भविष्यतीत्यत्रोच्यते-न तावच्छात्रादिस्वरूपं लक्षणाधीनमिति न तस्य लक्षणं हेतुः, छात्रादिप्रतीतेस्तु तद्धेतुः न चेह तत्प्रतीतिः केनचिदभिधीयते । सूत्रेण त्वनेन तृतीया विधीयमाना लक्षणमवद्योतयतीति युक्तोऽस्यारम्भ इति । एवं जटाभिस्तापसः जटाज्ञाप्यतापसत्वविशिष्टस्तापस इति । चूल्या परिव्राजकः । सहार्थ इत्येव सिद्धौ लक्ष्यलक्षणभावे षष्ठी मा भूदिति वचनम् । यत्तु धान्येनार्थी मासेन पूर्वः मासेनावरः असिना कलहः वाचा निपुणः गुडेन मिश्रः आचारेण श्लक्ष्णः माषणोनः २० माषण न्यूनः मासेन विकलः पुंसानुजः शङ्कुलया खण्डः गिरिणा काणः इत्यादौ तृतीया सा तु हेतौ कृता, भवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणेवेति ज्ञेयम् ॥ १८ ॥ सहार्थे ॥ १९ ॥ [सि० २।२।४५] सहार्थस्तुल्ययोगो विद्यमानता च । तस्मिन्गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः स्थूलो गोमान् । एकेनापि सुपुत्रेण सिंही स्वपिति निर्मरम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ १९ ॥ "सहा.” सहस्य सहशब्दस्यार्थः सहार्थः तुल्यः साधारणोऽप्रधानस्य प्रधानेन क्रियादिना यः सम्बन्धः स तुल्ययोगः । विद्यमानता सत्ता । तस्मिन् गम्यमाने इति शब्दादर्थाद्वेति शेषः । ननु च विद्यमानतायामपि तुल्ययोगोऽस्त्येव सत्तया सहोभयोः सम्बन्धात् सहैव दशभिः पुत्रैर्भार वहति ३० गर्दभीत्यत्र सहैव दशभिः पुत्रैः सतीति शक्यं प्रतिपत्तुम् तत्किं तुल्ययोगाद्विद्यमानतायाः पृथग्ग्रहणेन ? उच्यते । विवक्षितयोगाभावात्सहैव दशभिरित्यत्र वहनमात्रं विवक्षितं तद्गर्दभ्या एव न तत्पुत्राणाम् , तेषां तु विद्यमानतैव विवक्षिता-दशभिः पुत्रैः विद्यमानैरपि भारं वहतीति विवक्षितत्वात् । पुत्रेण सहागत इत्यत्रागमनक्रियया पितापुत्रयोस्तुल्ययोगः, पुत्रेण सह स्थूल इत्यत्र स्थौल्येन गुणेन, पुत्रेण सह गोमानित्यत्र च गोभिर्द्रव्येण । एवं शिष्येण सह ब्राह्मण इत्यत्र जात्येति । सर्वत्रात्र यद्यप्युभयोः ३५ क्रियादियोगस्तथाप्यागत इत्यादिशब्देनाभिधीयमानः क्रियादियुक्तः केनचित्प्रयोजनेन मुख्यतया विव २५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy