________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । करणसंज्ञाविधानम् । तृतीयाविधानम् २३१ यत्वबोधनाच, अचेतने कर्तृपदप्रयोगस्तु गौण इत्याबाहुः । निष्पत्तिमात्रे इत्यादिकारिकाद्वयं व्याख्यातार्थम् । चैत्रेण कृतमिति-इदं कार्यमिति शेषः । अत्र "कर्तृतृतीयाया आश्रयोऽर्थः-तथाहि-स्वतन्त्रः कर्ता, स्वातव्यं च धात्वर्थव्यापाराश्रयत्वम् , 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते' इति वाक्यपदीयात् ; अत एव यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्तेति । खाली पचति, अमिः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि सङ्गच्छते" इति भूषणे । इदं कार्यजननानुकूलस्य व्यापारा-५ श्रयश्चैत्र इति भावः । यत्तु चैत्र इत्यादि स्पष्टम् । घटः क्रियते इत्यादिषु कर्मादिशक्तीनामुक्तत्वात्तदभिधायिन्यो द्वितीयादिविभक्तयो न स्युः। अर्थप्रत्यायनाय लोके शब्दः प्रयुज्यते, सचार्थो यदा शब्दान्तरेण प्रतिपादितः स्यात्तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगेण न भाव्यम् , अक्षिनिकोचत्वादिभिरप्यधिगतेऽर्थे शब्दो न प्रयुज्यते; किं पुनः शब्दान्तरप्रतिपादिते यथा चित्रगुरित्यत्र बहुव्रीहिणोक्तार्थत्वान्मत्वर्थीयो न भवतीति ॥ १६ ॥
साधकतमं करणम् ॥ १७॥ [सि० २।२।२४ ] क्रियात्वेनाव्यवधानेन विवक्षितं क्रियासिद्धौ प्रकृष्टोपकारकं करणं स्यात् । दानेन लभते भोगम् ॥ १७ ॥
"साधक०" तमबर्थः प्रकर्षः स चाव्यवधानेन फलजनकव्यापारवत्ता तादृशव्यापारवत्कारणं प्रधानोपकारकं तच्च विवक्षयेत्यभिप्रेत्याह-क्रियासिद्धावित्यादि-ननु सामग्र्यधीना हि क्रियासिद्धिरेकस्याप्यभावे १५ न भवति, तदस्यामनेकसाध्यायां कोऽस्य प्रकर्षों येन करणं साधकतमं स्थानान्यानि ? अत्रोच्यते । अव्यवधानेन विवक्षितमिति-अयं भावः-वस्तुवृत्त्या साधकतमस्य सम्भवो नास्ति यव्यापारसामनन्तर्येण तु क्रियासिद्धिर्विवक्ष्यते तस्य कल्पनया साधकतमस्येयं संज्ञा, युक्तं चैतत् , एवं हि नैयत्येन किञ्चिकरणम् ; तथाहि-काष्ठैः पचतीति काष्ठानि करणम्, काष्ठसम्बन्धज्वलनलक्षणव्यापारसामनन्तर्येण पचिक्रियासिद्धेर्विवक्षितत्वात् । कदाचित्स्थाल्या पचतीति स्थालीव्यापारसम्भवेन धारणलक्षणसामनन्त-२० र्येण पचिक्रियासिद्धौ विवक्षितायां स्थाली करणं यदाह
"क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणत्वं तदा स्मृतम्” ॥ १ ॥ "वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः" ॥२॥
अत्र च तमग्रहणात् अपादानादिसंज्ञाविधौ तरतमयोगो नास्ति इति ज्ञेयम् । तेन कुशूलात्पचति गङ्गायां घोषः प्रतिवसतीति व्यवहितोपचरितयोरप्यपादानत्वमधिकरणत्वं च भवति । अन्यं च कार-२५ कान्तरापेक्षया प्रकर्षो न स्वकक्षायां तेनैकस्यां क्रियायामनेकमपि करणं भवति । नावा नदीस्रोतसा ब्रजति, रथेन पन्था दीपिकया याति, सूपेन सर्पिषा लवणेन पाणिना ओदनं भुते इति । तार्किकास्तु कारकान्तरेऽचरितार्थत्वे सति क्रियाहेतुत्वं करणत्वं कारकान्तरनिष्ठव्यापारद्वारा क्रियाहेतुभावः सत्यन्तार्थः कर्तृकर्मणोः कुठारादिकरणनिष्ठव्यापारद्वारा छिदादिहेतुत्वान्नातिप्रसङ्ग इत्याहुः ॥ १७ ॥
हेतुकर्तृकरणेत्थम्भूतलक्षणे ॥ १८॥ [ सि० २।२।४४ ] एषु चतुर्पु तृतीया स्यात् । तत्र फलसाधनयोग्यो हेतुः । दानेन लभते भोगान् धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । *किञ्चित्प्रकारमापन्नस्य चिह्न इत्थम्भूतलक्षणं कमण्डलुना छात्रं लक्षयेः, कमण्डलुना छात्रमद्राक्षीत् ॥१८॥
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org