________________
२३०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवेषां तत्र साम्यान कस्यचित् प्राधान्यं सम्भावयाम इत्यत्रोच्यते-सर्वेषां साधनानां कर्ता प्रवर्तयिता भवति, तदधीनप्रवृत्तिनिवृत्तिकत्वात्तस्य च प्रागन्यतः शक्तिलाभात् प्रतिनिध्यदर्शनात् करणाद्यभावेsप्यास्ते शेते इत्यादौ केवलस्य कर्तुर्दर्शनात् कर्तृरहितानां करणादीनामदर्शनात्प्राधान्यम् कर्तुरिति । यद्वा सर्वेषां साधारणक्रियायां कर्तृत्वमवान्तरव्यापारविवक्षायां तु करणादिरूपत्वम् । यथा मातापित्रोरप५त्योत्पादने कर्तृत्वम् , तदविवक्षायां तु अयमस्यामियमस्माद्वा जनयतीत्यधिकरणत्वमपादानत्वं च व्यवतिष्ठते । एवं च स्वातव्यपारतश्रययोर्विरोधाभावात्करणं कारकमित्यादिविशेषणविशेष्यभावोऽपि । कर्तृसंज्ञा तु करणाद्यवस्थायां न भवति, "स्वतत्रः कर्ता” ( २।२।२) इत्यत्र कारकत्वादेव स्वातत्र्ये लब्धे पुनः स्वतनश्रुतिनियमार्था; तेन स्वातव्यमेव यस्य तस्य कर्तृसंज्ञा न तु पारतक्ष्यसहितस्वातत्र्ययुक्तस्य । कारकसंज्ञा तु वस्तुस्थित्याविद्यमानमुद्भूतत्वेनाविवक्षितमपि स्वातश्यमाश्रित्य करणादीनां विधानसामर्थ्यात् १० प्रवर्त्तते । यत्र च शक्तीनां निमित्तनिमित्तिभावेन युगपद्विवक्षा तत्र संज्ञानां विप्रतिषेध उच्यते-यथा
धनुषा विध्यतीति विनाऽपायविवक्षया धनुषः साधकतमत्वाभावात् संज्ञाद्वयप्रसङ्गे परः "स्पर्द्ध" (७४१११) इत्यत्र परग्रहणस्येष्टवाचित्वात्कचित्पूर्वमिति करणसंज्ञा:-एवमसिमिछनत्ति इति सत्येव
त्वे स्वातव्यस्य विवक्षितत्वात् कर्तृसंज्ञा; तदा तु तैक्ष्ण्यादीनां करणत्वम् । तैक्ष्ण्यादीनां तु कर्तृत्वविवक्षायामात्मनः करणत्वम् । तैक्ष्ण्यमेव हि वस्तुस्थित्यैकमपि विवक्षावशात्कर्तृत्वेन करणत्वेन १५द्वेधावतिष्ठते इति कर्तृत्वं करणत्वस्याबाधकमिति ॥ एवं स्थाली पचतीति अधिकरणरूपायाः स्थाल्याः
खातव्यविवक्षया कर्तृत्वम् । किश्च प्रेषितः करोतीत्यत्र प्रयोज्यावस्थायामपि स्वातन्त्र्यस्याहानेः कर्तृत्वमस्त्येव ॥ अस्य च कर्तुरधिश्रयणादयः पचिक्रियायामवान्तरव्यापारा वर्तन्ते । एतान् कुर्वन् देवदत्तः पचतीत्युच्यते । एषु तदा पचिर्वर्त्तते इति भावः । प्रयोजकोऽपि स्वतन्त्रत्वात्कतैव पचन्तं मैत्रं प्रयुङ्क्ते पाचयति मैत्रेण चैत्रः । ननु अत्र मैत्रेणेत्यत्र कर्तृतृतीया न प्राप्नोति अस्वतन्त्रत्वात् , यथा कर्तृसन्निधौ २० करणादीनां स्वातच्याभावस्तथा प्रयोजकसन्निधौ प्रयोज्यस्यापीति । नैष दोषः, प्रयोजकसन्निधानेऽपि प्रयोज्यस्य करणादिकारकविनियोगादिना क्रियासिद्धौ स्वातव्यसद्भावाद् ; यदि तु प्रयोज्यस्य स्वातत्र्यं न स्यान्नैवासौ साधनान्तरविनियोगादिना क्रियां कुर्यात् । यद्वन्दिरत्नमति:"यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः । अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम्” ॥ १ ॥
भाष्यकताप्युक्तम्-नहि कश्चित् परोऽनुगृहीतव्य इति प्रवर्त्तते, सर्व इमे स्वभूत्यर्थं यतन्त इति २५प्रेषितोऽप्यसौ स्वार्थदर्शनादिच्छायां सत्यां क्रियां करोति, तददर्शनान्न करोतीति स्वतत्र एवेति । ननु
प्रैषादूर्घ प्रयोज्यस्य स्वव्यापारे प्रवर्त्तनात् स्वातत्र्यमिति सिद्ध्यति तृतीया, औषकाले तु कथम् ? तत्र स्वव्यापाराप्रवर्तनात्प्रवृत्तौ च प्रैषवैयर्थ्यात्स्वातव्यं नास्ति, स्वतत्रस्य प्रयोजकः प्रयोक्तेति तद्व्यापारे णिग् न स्यात् । नैष दोषः । तस्य स्वतत्रत्वादृष्टसामर्थ्यः सम्भावितसामर्थ्यो वा क्रियायां स्वातत्र्येण समाश्रित एव नियोज्यशब्देनोच्यते । नन्वेकस्य स्वातत्र्यं पारतव्यं च प्रतिषिद्धम् , प्रयोजकसन्निधौ पारत३० त्र्येण स्वातव्यस्य तिरस्कृतत्वाद्यौगपद्यानुपपत्तिः । उच्यते । एकापेक्षया विरोधोऽत्र प्रैषापेक्षया पारतत्र्यं
करणाद्यपेक्षया च स्वातत्र्यमित्यविरोधः । यद्येवं नदीकूलं पततीत्यादौ स्वातव्याभावात्कर्तृत्वाभावः, तथाहि-स्वातत्र्यं नाम परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं चेतनव्यापारो नाचेतनस्य कूलादेः सम्भवति । उच्यते । सामान्येन कर्तृव्यापारे पदं निष्पाद्य पश्चात्पदान्तरयोगः, नान्तरङ्गं पदसंस्कारं बहिरङ्गः पदान्तरसम्बन्धो बाधते । तत्त्वं तत्त्वक्रियाकर्तृत्वं काष्ठादौ पाकाद्यनुकूलव्यापारवत्त्वप्रतिसन्धाने कर्तृप३६दप्रयोगाभावातू कृताकृतविभागादिना सिद्धयनशक्तिकेन कृधातुना तृजन्तेन सिद्धस्य कर्तृपदस्य यत्नाश्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org