________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कारकप्रक्रिया । द्वितीयादिविधानम् । कर्तृलक्षणम्
२२९
कालकृता वा प्रत्यासत्तिः सामीप्यं तस्मिन् विवक्षिते एतानि द्विरुच्यन्ते इति सूत्रेण द्विर्वचनम् । अधो गृहस्येति — उत्तराधर्यमात्रमत्र विवक्षितं न सामीप्यमिति द्वित्वाभावाद्वितीयाभावे षष्ठी ॥ १२ ॥
सर्वोभयाभिपरिणा तसा १३ ॥ [ सि० २२२२३५ ]
सर्वादिभिश्चतुर्भिस्तसन्तैर्युक्ताद् द्वितीया स्यात् । सर्वतो ग्रामं वनानि ॥ १३ ॥
“सर्वो०”। तसन्तैरिति–तसेति सर्वादिविशेषणत्वाद् “ विशेषणमन्तः” ( ७|४|११३ ) इति न्याया- ५ तदन्तप्रतिपत्तिरिति सर्वतो ग्राममित्यादि । एवमुभयतो ग्राममभितो ग्रामं परितो ग्राममिति । सर्वत उभयत इति सप्तम्यन्तात् “आद्यादिभ्य” (७२।८४ ) इति तसुः । अभिपरिशब्दाभ्यां "पर्यभेः सर्वोभये” ( ७।२।८३ ) इति तसुः । आभिमुख्यवृत्तिरपि तसन्तप्रतिरूपकोऽभितः शब्दोऽस्ति, सोऽपीह गृह्यते, ततस्तद्योगेऽपि षष्ठी मा भूदिति षष्ठ्यपवादोऽयं योगः ॥ १३ ॥
कालाध्वनोर्व्याप्तौ ॥ १४ ॥ [ सि० २२४२ ]
द्वितीया । व्याप्तिर्नैरन्तर्यम् । मासमधीते । क्रोशं गिरिः ॥ १४ ॥ । इति द्वितीया । “काला ०” । नैरन्तर्यमिति - स्वसम्बन्धिना द्रव्यगुणक्रियारूपेणात्यन्तसंयोग इति यावत् । मासमधीते इति-कालस्य क्रियया व्याप्ताविदमुदाहरणम्, द्रव्येण व्याप्तौ तु मासं गुडधाना इति, गुणेन व्याप्तौ मासं कल्याणीति । क्रोशं गिरिरिति-अध्वनो द्रव्येण व्याप्तावुदाहरणम्, गुणेन व्याप्तौ क्रोशं कुटिला नीति, क्रियया व्याप्तौ क्रोशमधीते इति । कालाध्वनोरिति किम् ? स्थाल्यां पचति । व्याप्ताविति किम् ? १५ मासस्य मासे वा द्वयहं गुडधानाः । भावादपीच्छन्त्यन्ये - गोदोहं वक्रः । षष्ठ्याः सप्तम्या वायमपवादः ॥ १४ ॥ अत्रापवादमाह
1
1
सिद्धौ तृतीया ॥ १५ ॥ [ सि० २ २४३ ]
मासेनावश्यकमधीतम् । सिद्धाविति किम् ? मासमधीतो नत्वाचारोऽनेन गृहीतः ॥ १५ ॥ “सिद्धौ ०" । सिद्धौ क्रियाफलनिष्पत्तौ द्योत्यायां कालाध्ववाचिनो नाम्नस्तृतीया स्यात् । मासमधीत २० इति-अत्र व्याप्तिमात्रं गम्यते न सिद्धिरिति । द्वितीयापवादोऽयं योगः ॥ १६ ॥ स्वतन्त्रः कर्ता ॥ १६ ॥ [ सि० २२२ ]
क्रियासिद्धौ प्रकृष्टो यः स कर्ता स्यात् । तथाहु:निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसम्भवः ॥ १ ॥ फलार्थी यः स्वतत्रः सन्फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां स कर्ता नाम कारकम् ॥ २ ॥
चैत्रेण कृतम् । यत्तु चैत्रः कटं करोतीत्यादौ प्रथमा सा उक्तत्वात् । आख्यातकृत्प्रत्ययेहि सर्वत्र करके प्रथमा । यथा घटः क्रियते । स्नानीयं चूर्णम् । दानीयो मुनिः । भयाant व्याघ्रः । गुडाधानी स्थाली ॥ १६ ॥
१०
Jain Education International
For Personal & Private Use Only
२५
"स्वतन्त्र ० " स्वतत्रशब्दो रूढिवचनः समासप्रतिरूपकः प्रधानार्थः । स्वशब्द आत्मवचनस्तत्रशब्दः प्रधानार्थः । स्वतनमस्येति तु पदघटनामात्रमिति । यस्यागुणभावेन धातुना व्यापार उच्यते स स्वतन्त्र इति तात्पर्यम् । एतत्सर्वं मनसिकृत्याह - क्रियासिद्धौ स्वप्रधान इत्यादि । ननु सामग्रीतः क्रियोत्पादात्स- ३३
३०
www.jainelibrary.org