________________
२२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमातरं परि मातरमनु । "हेतुसहार्थेऽनुना" (२।२।३८) हेतुर्विधा-जनको ज्ञापकश्च, तत्र ज्ञापकस लक्षणत्वात् तत्र पूर्वसूत्रेणैव द्वितीया सिद्धति जनक एवेह गृह्यते । सहार्थस्तुल्ययोगो विद्यमानता च तस्य च सहार्थस्य तुल्ययोगादेर्योऽसौ विषय आश्रयः पर्वतादिरर्थः सोऽप्युपचारात्सहार्थशब्दवाच्यः। तयोर्वर्तमानाद्गौणान्नानो द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः-अत्र जिनजन्मोत्सवो हेतुः, ५सुरागमनं हेतुमत् , तत्र जिनजन्मोत्सवस्य हेतुभावः सुरागमनापेक्षः, सोऽनुना द्योत्यते, तेन हेतुनेत्यर्थः । अत्र "हेतुकर्तृकरणेत्यम्भूतलक्षणे" (२।२।४४) इति प्राप्तां तृतीयां बाधित्वा द्वितीया भवतीत्यर्थः । नदीमन्ववसिता सेना-अत्र नद्यायाः सहभावः सोऽनुना धोत्यते; "सहाथै" ( २।२।४५) इति प्राप्तां तृतीयां बाधित्वानेन द्वितीया । अन्ये तु तृतीयार्थमात्र इच्छन्ति-पर्वतमन्ववसिता सेना, पर्वतेन का करणेन वा कृतान्तेत्यर्थः। अवपूर्वस्य सिनोतेः कर्मणि क्ते अवसितेति रूपम् । अत्र कर्तृता १० करणभावो वा तृतीयार्थ इति तृतीयापवादोऽयं योगः ॥ १०॥ गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनर्द्वितीया ॥ ११ ॥
[सि० २।२।३३] क्रियान्वयि मुख्यम् , परं गौणम् । समयादिभिर्नवमियुक्ताद्गौणानाम्नो द्वितीया स्यात् । समया ग्रामम् । निकषा गिरिं नदी । हा मैत्रं व्याधिः । धिग जाल्मम् । अन्तरा निषधं नीलं च विदेहाः। १५ अन्तरेण धर्म व सुखम् । अति वृद्धं कुरून् बलम् । येन पश्चिमां गतस्तेन पश्चिमां नीतः ॥११॥
"गौणा०" । मुख्यमुपकार्य यदर्थमन्यदुपादीयते यस्याख्यातपदेन सामानाधिकरण्यम् , ततोऽन्यत्तस्योपकारकं यत्तदर्थं तद्विशेषणं यस्याख्यातपदेनासामानाधिकरण्यम् , तद्गौणमित्यभिप्रेत्याह-क्रियान्वयीत्यादि-समया ग्राममित्यादि-अन समयेत्यादिसमीपवचनस्य ग्रामादिविशेषणं नद्यादिविशेष्यमित्युभयो
रपि युक्तत्वम् । तत्र नद्यादिविशेष्यमस्तीत्याद्याख्यातपदेन समानाधिकरणं मुख्यम् , प्रामादिपदं तु न २० तथेति गौणमिति ततो द्वितीया । सर्वत्र सम्बन्धषष्ठ्यां प्राप्तायां द्वितीयाविधानम् । हा मैत्रमिति
अत्र शोच्यता देवदत्तस्य हाशब्देन द्योत्यते । व्याधिरिति-वर्धते इति शेषः। धिग् जाल्मम्-अत्र जाल्मस्य निन्धता । अन्तरेति-निषधनीलयोर्मध्ये विदेहा इत्यर्थः, मध्यशब्दस्य सप्तम्यन्तस्य यादृशोऽर्थस्तादृशोऽन्तराशब्दस्यापि-उद्भूताधारशक्तिकोऽयमित्यर्थः ॥ अन्तरेणशब्दस्य त्वेको दर्शितोऽर्थोऽपरो विनार्थश्चेत्याह-अन्तरेणेति । समयादिसाहचर्यादेतौ निपातौ । नत्वन्तराशब्दः स्त्रियामाबन्तः, न चान्तरेणशब्द२५स्तृतीयान्त इति; तेनान्तरायां पुरि वसति, किं तयोरन्तरेण ज्ञातेनेत्यत्र द्वितीया न भवति ॥ हा तात धिगजाल्म हा सुभ्र इत्यादावामक्यतया विवक्षा न हादियुक्तत्वेनेति न भवति ॥ एवमतिवृद्धं कुरून् बलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतः तेन पश्चिमां नीतः। बहुवचनादन्येनापि युक्ताद्भवति-बुभुक्षितं न प्रतिभाति किश्चित् । धातुसम्बन्धोऽत्र प्रतिस्तेन भागिनि च प्रतिपर्यनुभिरिति न सिद्ध्यतीति ॥ ११ ॥
द्वित्वेऽधोऽध्युपरिभिः ॥ १२॥ [सि० २॥२॥३४] द्विरुक्तैरेमियुक्ताद्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्राम ग्रामाः। द्वित्व इति किम् ? अधो गृहस्य ॥ १२॥
"द्वित्वे."। अधःप्रभृतयः कृतद्विर्वचनाः समीपवचना एव, अन्यत्र द्वित्वाभावात् । यस्य तत्सामीप्यं ३४ प्रामादेस्ततः सम्बन्धे षष्ठयां प्राप्तायामयं योगः । अघोऽध इत्यादि-सर्वत्र सामीप्येऽधोऽध्युपरिदेशकृता
२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org