________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कारकप्रक्रिया । द्वितीयाविधानम्
२२७ च कारकचक्रनिःपाद्यत्वात्कर्मरूपतां नातिक्रामति । ततो यथा भीष्ममुदारं दृश्यं करोतीत्यादौ कटादिकर्मविशेषणतया भीष्मादिशब्देभ्यो द्वितीया, तथा मन्दमन्नति साधुर्गच्छति इत्यादौ कर्मत्वात्क्रियाविशेषणादपि भविष्यति, किमनेन सूत्रेण इति ? अत्रोच्यते - द्वितीयार्थमिदं सूत्रम्, न कर्मसंज्ञार्थम्, तेन कृद्योगे कर्मनिमित्ता षष्ठी न भवति । अयमर्थः - यदीदं न स्यात्तदा यथौदनस्य पक्केत्यादौ कृदन्तकर्मत्वादोदनादिशब्दात्कर्मणि षष्ठी, एवं ओदनस्य शोभनं पक्तेत्यादौ शोभनशब्दादपि स्यात् । नासा-५ विष्टा शिष्टासम्मतत्वात् ; यथा मन्दं गन्ता ग्रामायेत्यादौ चतुर्थी चानिष्टा स्यादिति । नन्वस्तु प्रथमा, प्रथमाद्वितीयैकवचनरूपं प्रत्यविशेष इत्युक्तत्वाद्दोषाभावात् । नैवम्, प्रथमाविधाने अथो पचति शोभनं ते भार्येत्यादौ ते मे विधानं “ सपूर्वात्प्रथमान्ताद्वा" ( २।१।३२ ) इत्यन्वादेशे विकल्पितं स्यान्नित्यं चेष्यते इति प्रथमाविधिर्नेष्ट इत्येतत्सर्वं मनसिकृत्याह - द्वितीयेति । तत्राप्यसत्स्वात्मिकायाः क्रियाया विशेषणत्वेन सङ्ख्याद्ययोगादौत्सर्गिकद्वितीयाया एकवचनमेव च भवति ।। ९ ।।
उत्कृष्टेऽनूपेन ॥ १० ॥ ( सि० २२२३९ )
उत्कृष्टार्थादनूपाभ्यां युक्ताद्वैौणान्नानो द्वितीया भवति । अनुसिद्धसेनं कवयः । उपहेमचन्द्र वैयाकरणाः । तेषु तौ उत्कृष्टौ इत्यर्थः ॥ १० ॥
“उत्कृष्ट०” उत्कृष्टशब्दो हीनापेक्षः तेन हीनोत्कृष्टसम्बन्धेऽनुना द्योत्ये द्वितीया विधीयते । उत्पूर्वात् कृपतेः कर्मणि क्ते यद्भाव इति सप्तम्यामुत्कृष्टे इति । अनुसिद्धसेनं कवय इति - सिद्धसेनकविनिर्दिष्टस्य १५ हीनोत्कृष्टसम्बन्धस्यापेक्षणक्रियाजनितत्वमनुना ख्याप्यते, यथात्र सिद्धसेनमुत्कृष्टमनूद्य कवीनां हीनत्वाविधाने दत्तमुदाहरणम्, तथा कवीन् हीनाननूद्य सिद्धसेनस्योत्कृष्टत्वेऽप्युदाहरणं द्रष्टव्यम् । यथानुकवीन् सिद्धसेन इति । तथा चाह-तेषु तौ उत्कृष्टौ इति ताभ्यामन्ये कवयो वैयाकरणाश्च हीना इति यावत् ।
सिंहावलोकनन्यायेन पूर्वोक्तस्य इत्यादिशब्दस्यानानुवृत्त्यान्यस्याप्यव्ययस्य योगे द्वितीया स्यात्, तथाहि - "लक्षणवीपस्येत्थम्भूतेष्वभिना ” ( २/२/३६ ) लक्ष्यते दर्श्यते येन तल्लक्षणम् - चिह्नम् । २० अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा वीप्सा, तत्कर्म वीप्स्यम् । केनचिद्विवक्षितेन विशेषेण भाव इत्थंभावस्तद्विषय इत्थम्भूतः । एष्वर्थेषु वर्त्तमानादभिना युक्ताद्गौणान्नान्नो द्वितीया भवति । वृक्षमभिविद्योतते विद्युत्-अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युत् लक्ष्यम्, अनयोश्च लक्ष्यलक्षणभावः सम्बन्धोऽभिना द्योत्यते । अत्र सम्बन्धस्य द्विष्ठतया विद्युतोऽभिना योगेऽपि गौणादिति वचनात् प्रधानत्वात्ततो न द्वितीया । वृक्षं वृक्षमभिसेकः, एकैकस्य वृक्षस्य सेक इत्यर्थः । अत्र सेकेन वृक्षाणां २५ वीप्स्यमानानां सेकं प्रति यस्तेषां साध्यसाधनभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते । वीप्सा तु द्विर्वचनद्ययैव । अन्ये तु वीप्सावीप्स्यमानयोः सम्बन्धो द्विर्वचनेनैव द्योत्यते नत्वभिना इति सम्बन्धमद्योतयतापि तेन योगे वचनाद्वितीयेति । साधुर्देवदत्तो मातरमभि - मातृविषये साधुत्वप्रकारं प्राप्त इत्यर्थः । अत्र मातुर्देवदत्तस्य साधुभावं प्रति विषयता - देवदत्त इत्थम्प्रकारं मातृविषये प्राप्त इत्यर्थः । योऽसौ मातुरित्थम्भावप्राप्त्या विषयविषयिभावलक्षणः सम्बन्धः सोऽभिना द्योत्यत इति " भागिनि ३० च प्रतिपर्यनुभिः” (२।२।३७) स्वीक्रियमाणों शो भागस्तत्स्वामी भागी तत्र लक्षणादिषु चार्थेषु वर्त्तमानात् प्रति-परि-अनुभिर्युक्ता गौणान्नान्नो द्वितीया स्यात् । भागिनि - यदत्र मां प्रति मां परि मामनु स्यात्, योsa मम भाग आभवति स दीयतामित्यर्थः । लक्षणे - वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् । वीप्स्ये—वृक्षं वृक्षं प्रति वृक्षं वृक्षं परि वृक्षं वृक्षमनुसेचनम् । इत्थम्भूते - साधुमैत्रो मातरं प्रति ३४
१ वृक्षं प्राप्य विद्योतत इति प्राप्तिक्रियाजनित इति शेषः ।
Jain Education International
For Personal & Private Use Only
१०
www.jainelibrary.org