________________
२२६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुओदनपाके स्वपिति, पञ्चालेषु वसति, ग्रामे वसति, प्रामे वासः, ग्रामे वासी । तथा रात्रावधीतं दिवसे भुक्तम् । कालाध्वभावदेशमिति किम् ? प्रासादे आस्ते, शय्यायां शेते । अकर्म चेति किम् ? मासमास्यते क्रोशं सुप्यते, अत्र कर्मणि सति भावे आत्मनेपदं न स्यात् सकर्मकत्वादिति । कर्मण्यात्मनेपदे तु तेनैवाभिहितत्वात् कर्मणो द्वितीया न स्यात् । नाभिहिते कर्मणि व्याप्तावपि द्वितीयेष्यते, ततः कर्मसंज्ञा अकर्म५संज्ञा च युगपद्भवत इति भावः; ततश्च गोदोहमासितः इदं गोदोहमासितं गोदोह आस्यते कुरून सुप्यते एषु "तत्साप्यानाप्यादिति” ( ३।३।२१) “गत्यकर्मकपिबभुजेः” (५।१।११) इति “अद्यर्थाच्ाधारे" (५।१।१२) इति भावे कर्त्ताधारे च यथायथमात्मनेपदक्तौ सिद्धौ । अकर्मकाणामिति किम् ? रात्रावुदेशोऽधीतः । कथं पचत्योदनं मासम् , भक्षयति धानाः क्रोशम् , पिबति पयो गोदोहम् , भजति सुखं
कुरून्,-द्विकर्मकत्वात् “कर्तुर्व्याप्यं कर्म” (२।२।३) इत्येव भविष्यति । अन्ये तु सकर्मकाणामकर्मकाणां १० च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति । मासमास्ते, दिवसं पचत्योदनम् ,
क्रोशं पठति वेदम् , क्रोशं खपिति, गोदोहमास्ते, गोदोहं पचत्योदनम् ; अनेन कर्मसंज्ञायां कर्मणि त्याद्यादयोऽपि-आस्थते मासः, सुप्यते मासः, आशितो मासः, शयितो मासः, शयितः क्रोश इत्यादि । कालाध्वनोठाप्ताविति च मासं गुडधानाः, क्रोशं कुटिला नदीत्यादौ गुणद्रव्ययोगे एवेच्छन्ति,
न तु मासमधीते इत्यादौ क्रियायोगे-अत्यन्तसंयोगादन्यत्र तु रात्रौ शेते अध्वनि स्थित इत्यादावाधार१५ त्वमेव । "क्रिया.” करोतेर्भावे कर्मणि वा शप्रत्यये क्रियापूर्वात् । 'शिष्लंप् विशेषणे' इत्यतो विशिष्यतेऽवच्छिद्यतेऽनेनेति करणेऽनटि विशेषणं धात्वर्थः । क्रिया परिणामपरिस्पन्दवर्तनालक्षणा त्रिधा तस्या यद्विशेषणमवच्छेदकं ततो द्वितीया भवतीति । ननु च रूपानुपाधिवक्रिया द्रव्यस्यैवोपाधिः, न चोपाधेरुपाध्यन्तरसम्भवः, 'निर्गुणा गुणाः क्रिया च' इति वचनात् , कथं क्रियाया विशेषण
सम्भवः ? सत्यमेतत् । किन्तु सजातीयस्य द्रव्योपाधेरपेक्षयोत्कर्षों दृश्यते-यथा शुक्लः शुक्लतरः शुक्लतम २० इति रूपरसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्षापकर्षवृत्तित्वं स्यान्न तूपाध्यन्तरयोगात् । तदाहुस्तत्त्वविदः
"भवेहिगुणमाधुर्यमनन्तगुणकालकम् । द्रव्यं चतुर्गुणोद्भूतगन्धमात्रफलादिकम्" ।। १ ॥ यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेषसम्भवे शोभनं पचतीत्येवं विशेषणयोगः स्यात्कथमन्यथा पापच्यते पचतितरामित्यादौ तासामेकरूपत्वाद्यङादिप्रत्ययविधिः स्यात् । ननु चास२५त्त्वभूता क्रिया तदुपाधिस्तु सुतरामसत्त्वभूतस्तत्कथं सत्त्वाभिधायिना नाम्ना प्रतिपाद्यते इति ? उच्यतेधातुप्रकृतिवाच्याऽसत्त्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते, तथा चोपाधिरपि सत्त्वापन्नः शोभनादिशब्देनेत्यदोषः । कथं पुनरसत्त्वभूतोऽर्थः सत्त्वरूपेण प्रकाश्यते इति चेत् ? स्ववाचकप्रकाशबलादिति ब्रूमः । स्वशक्तिरियं वाचकानां यदसत्त्वं सत्त्वरूपतया प्रकाशयति,
पदार्थस्य वा स्वरूपमिदमीदृशं यद्विशिष्टेन वाचकेनाभिधीयमानो असत्त्वरूपः सत्त्वरूपतयापि प्रकाशते; ३० तदुक्तम्
"व्यपदेशे पदार्थानामन्या सत्तौपचारिकी । सर्वावस्थासु सर्वेषामात्मरूपनिदर्शनी ॥ १॥"
"स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः । स्वशक्तियोगात्सम्बद्धं ताद्रूप्येणैव गम्यते” ॥ २ ॥ उदाहरणम्-स्तोकं पचतीति । ननु "क्रियाव्ययविशेषणे" (है. लिङ्गा०) इति लिङ्गकारिकावचनानपुंसकत्वमेकत्वं च क्रियाविशेषणानामभिहितं तत्र "नाम्नः प्रथमै०" (२।२।३१) इति सूत्रेण सामान्येन ३५विहिता यथाऽव्ययेभ्यस्तथा क्रियाविशेषणादपि प्रथमा भविष्यति । अन्ये त्वाहुः-धात्वर्थः क्रिया सा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org