________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कारकप्रक्रिया । कर्मसंज्ञाविधानम्
उपान्वध्याङ्वसः ॥ ८ ॥ [ सि० २२२१] एभ्यो वसतेराधारोऽप्येवम् । ग्राममुपवसति ॥ ८ ॥
1
उपा० । एभ्य इत्यादि -- उप- अनु अधि - आभिर्विशिष्टस्य वसतेर्य आधारः स कर्मसंज्ञो भवतीति । ग्राममुपवसतीति- एवं ग्राममुपोषितः ग्रामस्योपवसनम्, ग्राम उपोष्यते । एवं ग्राममनुवसति अधिवसति आवसति । अन्वादिसाहचर्यादुपस्य स्थानार्थस्यैव ग्रहणं नाशननिवृत्त्यर्थस्य; तेन ग्रामे उपवसति ५ भोजननिवृत्तिं करोतीत्यत्र न भवति । अदाद्यनदाघोरनदादेरेव ग्रहणमिति वस्तेर्न भवति ॥ ८ ॥
वाऽभिनिविश ॥ ९ ॥ [ सि० शश२२ ]
-निपूर्वस्य far आधारः कर्म वा स्यात् । व्यवस्थितविभाषेयम् तेन क्वचित्कर्मसंज्ञा कचिदाधारसंज्ञाऽपि । ग्राममभिनिविशते । कल्याणे अभिनिविशते । "कालाध्वभावदेशं वा कर्म च कर्मणाम्" (२।२।२३) मासमास्ते । मास आस्यते । “क्रियाविशेषणात् " ( २|२| १० ४१ ) । द्वितीया । क्रियाव्ययविशेषणे इत्यस्य क्लीबत्वम् । स्तोकं पचति । सुखं स्थाता ॥ ९ ॥
२२५
वाऽभि० । अभिनीति- अभिपूर्वो निः अभिनिः । अभि- निरुपसर्गसमुदायः पूर्वो यस्य तादृशस्य । 'विश इति 'विशंत् प्रवेशने' इत्यस्य धातोः । व्यवस्थितेति - नात्र वाशब्दो विकल्पार्थो येन समकक्षतया द्वितीयासप्तम्यौ स्याताम्, किन्तु प्रयोगव्यवस्थायै इति । तत्रेयं व्यवस्था - अभि- निपूर्वस्य विशेरस्ति समुदायार्थोऽवयवार्थश्च तत्र यत्रावयवार्थानुगमस्तत्र कर्मभावः ग्राममभिनिविशते इति - अत्र हि ग्राममा १५ भिमुख्येन निविशत इति प्रतीयते । यत्र तु समुदायार्थ एव, नावयवार्थस्तत्राधिकरणभावः; यथा कल्याणेऽभिनिविशते । एतेषां शब्दानामेतेष्वभिनिविष्टानाम् । एवमर्थेऽभिनिविष्ट इति - अत्र हि धातूपसर्गसमुदायेन मनस एकाता तात्पर्यमुच्यते । यथा ग्रामे उपवसतीति भोजनत्यागः । या या संज्ञा यस्मिन्यस्मिन्संज्ञिन्यभिनिविशते, इत्यत्र च संज्ञानां विषयेणाव्यभिचारः । "काला०” अनिर्ज्ञातपरिमाणायाः क्रियायाः परिच्छेदिका निर्ज्ञातपरिमाणा क्रिया कालः, स च मुहूर्त्तादिः । अध्वा गमनार्हं क्षेत्रं क्रोशादिः, २० तेनाध्वशब्दाभिधेयस्याध्वनः कर्मसंज्ञा न भवति । नह्य सावध्व विशेषः क्रोशयोजनादिवद्गमनमर्हति ( यद्वा अर्थप्रधानोऽयं निर्देशः -- तेन कालाध्वभावदेशानां साक्षात्प्रयोगे न भवति अपि तु तदर्थप्रतिपादकशब्दप्रयोगे ) भावः - क्रिया, घनादिवाच्या, सिद्धताख्या गोदोहादिर्न तु साध्यमाना । देशो जनपदग्रामनदीपर्वतादिः ( आदिशब्दात्खेटकर्बटमडम्बादिर्गृह्यते ) अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा भवति अकर्म च । यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि भवतीत्यर्थः । मास आस्यते इति आत्मनेपदेन २५ कर्मणोऽभिहितत्वान्मासात् प्रथमा, तत्रापि गौणाधिकारात् “कालाध्वनोर्व्याप्तौ ( २।२।४२ ) इत्यनेनापि द्वितीया न भवति । एवं सर्वत्र । एवं दिवसं शेते, दिवसः शय्यते इति कालः । अध्वा -क्रोशं स्वपिति क्रोशः सुप्यते । भावः: - गोदोहमास्ते गोदोह आस्यते । ओदनपाकं शेते ओदनपाकः शय्यते । अत्र गोदोहन पाकादीनां सत्यपि क्रियारूपत्वेन कालत्वे मासादय एव तद्वाचित्वेन लोके प्रसिद्धाः, न तु गोदोहादय इति भावस्य पृथगुपादानम् । देश:- कुरूनास्ते कुरव आस्यन्ते, ग्रामं वसति ग्राम उष्यते । ३० अविवक्षितकर्माणः सकर्मका अध्यकर्मकाः - मासं पचति मासः पच्यते, क्रोशमधीते क्रोशोऽधीयते, ओदनपार्क पठति ओदनपाक: पठ्यते, कुरून् पठति कुरवः पठ्यन्ते, पक्षे रात्रौ सुप्यते, गोदोहे आस्ते, ३२
है० प्रका० पूर्वा० २९
"
१ शब्दशक्तिप्रामाण्यात् अन्वादिपूर्वो वसतिः स्थानार्थमाचष्टे । २ स्थानार्थद्योतकत्वादुपशब्दोऽपि स्थानार्थः । ३ अत्र सामीप्यक आधारः । यदा तु गोदोहविशिष्टः कालो विवक्ष्यते, तदा नैमित्तिकोऽपि । एवमोदनपाक इत्यत्रापि ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org