________________
२२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुवस्थ्यं) रक्षितुं यो यनः स प्रतियत्नस्तस्मिन्वर्तमानस्य करोतेाप्यं कर्म वा स्यात् । एंधोदकस्योपस्कुरुते, एधोदकमुपस्कुरुते । शतपत्रस्योपस्कुरुते, शतपत्रमुपस्कुरुते । "उपाद्भूषासमवायप्रतियत्नविकारवाक्याध्याहारे" (४।४।९२) इति स्सद् । प्रतियन इति किम् ? कटं केरोति । व्याप्यमित्येव-एधोदकस्योपस्कुरुते । बुद्ध्या करणस्य मा भूत् । “विनिमेययूतपणं पणिव्यवहोः" ( २।२।१६) विनिमेयः ५क्रेयविक्रयोऽर्थः, घूतपणो शूतजेयम् । पणतेय॑वपूर्वस्य च हरतेाप्यौ विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य पैणायति शतं पणायति । दशानां व्यवहरति दश व्यवहरति । क्रयविक्रये द्यूतपणत्वे वा तद्विनियुझे इत्यर्थः । विनिमेयधूतपणमिति किम् ? साधून पणायति स्तोतीत्यर्थः । शलाकां व्यवहरति विगणयन् गोपायतीत्यर्थः, अनेकार्थत्वाद्धातूनाम् । वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः । “उपसर्गादिवः” (२।२।१७) उपसर्गात्परस्य दिवो व्याप्यौ विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य १० प्रदीव्यति शतं प्रदीव्यति । "न" ( २।२।१८) विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न भवतः । उपसर्गपूर्वस्य विकल्पविधानादनुपसर्गस्यायं निषेधः । शतस्य दीव्यति । निषिद्धे च कर्मणि "शेषे" (२।२।८१) इति षष्ठयेव भवति । शतस्य दीव्यते, शतस्य द्यूतम् , शतस्य देवितव्यम् , शतस्य सुदेवम् इत्यादौ भावे आत्मनेपदकृत्यक्तखलः सिद्धाः । शतस्य द्यूतो मैत्र इत्यत्र कर्तरि क्तः। विनिमेयवतपणमित्येव-जिनं दीव्यति-स्तोतीत्यर्थः । भूमि दीव्यति-सन्धिना विजिगीषते-समर्थेन सह सन्धि कृत्वाs. १५न्येषां भूमि विजिगीषत इत्यर्थः । सन्धिपणोऽत्र, न द्यूतपणः । द्यूतं दीव्यति, अक्षान् दीव्यति । अत्र क्रिया तत्साधनं च व्याप्यं न तु पणः । “करणं च" (२।२।१९) दीव्यतेः करणं कर्मसंज्ञं चकाराकरणसंशं च भवति, कर्मकरणसंज्ञे युगपद्धजतीत्यर्थः । अक्षान् दीव्यति, अक्षाणां देवनम् , अक्षा दीव्यन्ते, अक्षा देवितव्या, अक्षाः सुदेवाः, अक्षदेवः, अक्षा गताश्चैत्रेण-एषु कर्मत्वे द्वितीयाषठ्यात्मनेपदतव्यखलण्क्तप्रत्ययास्तन्निमित्ताः सिद्धाः । अक्षैर्दीव्यति, अक्षैर्देवनम् , अझैभव्यते, अझै२० देवितव्यम् , अझैः सुदेवं मैत्रेण, अक्षैर्वृतं चैत्रेण, अक्षा देवनाः-एषु करणत्वेन तृतीयानटौ, भावे आत्मनेपदादयश्च सिद्धाः, आत्मनेपदादिभिश्चोक्तयोः कर्मकरणयोर्द्वितीयाषष्ठीतृतीया यथायोगं न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थः, तेन अक्षैर्देवयते मैत्रश्चैत्रेण इत्यत्र करणत्वात्तृतीया भवति, कर्मत्वाञ्च गत्यादिसूत्रेण नित्याकर्मकलक्षणमणिकर्तुः कर्मत्वम् , देवयतेश्च "अणिगिप्राणिक." (३।३।१०७) इत्यादिनाऽकर्मकलक्षणं परस्मैपदं न भवति । "अधे:०" अधेः सम्बद्धानां 'शीङ्क स्वप्ने' २५ 'ष्ठां गतिनिवृत्तौ' 'आसिक् उपवेशने' इत्येषां धातूनामाधारस्य कर्मत्वं नित्यं स्यादित्यर्थः । ग्राममधिशेते
इति; एवं ग्रामस्याधिशयनम् , प्रामोऽधिशायितः, ग्राममधितिष्ठति, प्राममध्यास्ते । अधेरिति किम् ? शयने शेते, गृहे तिष्ठति, कटे आस्ते । आधार इति किम् ? ग्रामोऽधिशयितो मैत्रेण, पौरुषेणाधितिष्ठति । कर्तृकरणे न भवतः ॥ अकर्मका अपि हि धातवः सोपसीः सकर्मका भवन्तीति सिद्धं सकर्मकत्व२९ माधारबाधनार्थ तु वचनम् ॥ ७ ॥
१ एधाश्च उदकानि च "अप्राणिपश्वादेः" । (३।१।१३६) इत्येकलम् । २ अभूतः सन् निर्वयैः कटोऽत्र। यत्र तु वणिकया रक्तं कटं करोति, तत्रापि विकार्यमेव कर्म न प्रतियनः । उपपूर्वस्यैव करोतेः प्रतियत्नविषयत्वात् 'गन्धन' इत्यात्मनेपदं चोपपूर्वस्यैव । मूलोदाहरणेष्वपि उपपूर्व एव दर्शितः। ३ प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानां ग्रहणमिति सूत्रे पणेत्युक्तेऽपि पणातेरिह 'कमणि' (३३४२) इत्यत्र णिनिति सकारोदानात् आत्मनेपदं प्रत्ययं न्यायोऽनित्यः । ४ चकारस्यान्यत्समुच्चेतव्यं नास्ति इति करणमेव प्रतीयते । करणस्य कर्मसंज्ञायामप्रामायां विधीयमानायां निर्वादयो धर्मा न चिन्त्या असम्भवात् । ५ फलं भवतु मा वा, संज्ञादयं तु सर्वप्रयोगेषु वेदितव्यम्, न च संज्ञाद्वयं युगपन्निरवकाशम्-अक्षैर्देवयते इत्यत्र चरितार्थत्वात् अत्र अक्षान् देवयते इत्यपि प्रयोगो भवति। न च विकल्पेऽपि संज्ञाद्वयं भविष्यतीति वाच्यम्विकल्पस्य पाक्षिकप्रवृत्तिनिवृत्तिफलत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org