________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कर्मसंज्ञाविधानम् २२३ सन्तापयति रोग इत्यत्र कर्मसंज्ञाविकल्पो न भवति । कर्तरीति किम् ? चैत्रं रुजयत्यत्यशने वातः-अत्र योऽत्यशनरूपो भावो न स कर्ता यस्तु वातरूपः कर्ता स द्रव्यं, न भावः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा, अत्र श्लेष्मा द्रव्यं, न तु भावः ॥ श्लिष्यतेर्मनि “मन्” (उणा० ९११) श्लेष्मा, रोगो व्याधिरामयः शिरोऽतिरित्यादयो भावरूपाः कर्तार इति । अत्र सूत्रे व्यथितप्योर्गत्यादिसूत्रेण अणिकर्तुः कर्मत्वम् । “जास०” हिंसायामिति 'ब्रूसपिसजसबर्हण हिंसायाम्' 'जसण ताडने' इति चुरादी गृह्येते न५ च 'जसूच् मोक्षणे' इति देवादिकस्तस्य हिंसार्थत्वाभावात् । चौरस्येति-एवं चौरस्योज्जास्यते चौर उज्जास्यते चैत्रेण । तथा 'नटण अवस्यन्दने' इत्ययमपि चुरादिर्न तु 'णट नृत्तौ' इति भ्वादिः । चौरस्य चौरं वा उन्नाटयति । 'स्मथक्कथनथक्लथ हिंसार्था' इति घटादौ चौरस्योत्नाथयति चौरमुत्कथयति । 'पीप्लंप् संचूर्णने' चौरस्य चौरं वा पिनष्टि । ननु जसनटक्रथेति धातवः पठ्यन्ते, ततोऽत्र जासनाटकाथेत्याकारः किमर्थः ? ण्यन्तनिर्देशः, तर्हि जासिनाटिकाथीति भवितव्यमिति । अत्रोच्यते-अत्राकारेण न १० जस्यादिधातुमात्रं निर्दिश्यतेऽपि तु यदेषामाकारवद्रूपं तदुच्यते तेन यत्र प्रयोगे एषां धातूनामाकारस्तत्रैवायं विधिर्नान्यत्र, तेनेह न भवति-दस्युमुदजीजसत् अनीनटत् उदचिक्रथत् । जसेर्नटेश्च चुरादित्वात् णिच् उत्क्रथति कश्चित्तमन्यः प्रयुङ्क्ते इति "प्रयोक्तृव्यापारे णिग्” (३।४।२०) "ब्णिति" (४।३।५० ) इति तस्य वृद्धिस्ततोऽद्यतन्यादि, “णिभिद्रुस्रुकमः कर्तरि ङः" (३।४।५८) इति उस्ततः 'उपान्त्यस्यासमानलोपिशास्वृदितो डे' (४।२।३५) इति ह्रस्वस्ततो द्विर्वचनादिः । अत्र जासेत्याद्याकारवद्रूपं नास्तीति नायं १५ विकल्पः । अथ चौरस्योत्नाथयतीति कथमाकारः, घटादित्वात् “घटादेर्हस्वो दीर्घस्तु वा भिणम्परे" (४।२।२४) इति ह्रस्वेनैव भवितव्यमिति काथेति रूपाभावे तदनुकरणमपि सूत्रेऽनुपपन्नमिति । अत्रोच्यतेसूत्रे काथेत्युपादानाद्विज्ञायते-सत्यपि घटादित्वे अस्ति णिगि क्रथेराकारोऽन्यथास्यानुपपत्तेः, न च णिगं विनास्य कर्मास्त्यकर्मकत्वात्स च यद्याकारः सर्वत्र स्यात्तदा घटादित्वमनर्थकमिति कर्माभाव एव हस्खो न भवति, कर्मत्वे तु ह्रस्वत्वमेव-चौरमुत्कथयतीति । हिंसायामिति किम् ? चौरं बन्धनाज्जासयति-२० मोचयतीत्यर्थः । नटं नाटयति-नर्तयतीत्यर्थः । अभावकर्तृकार्थं वचनम् ॥ ६ ॥
निप्रेभ्यो नः ॥७॥ [सि० २।२।१५] समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हन्ताप्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति निहन्ति प्रहन्ति प्रणिहन्ति *इत्यादि । “अधेः शीस्थास आधारः” (२।२। २०) कर्म नित्यं स्यात् । ग्राममधिशेते अधितिष्ठति अध्यास्ते ॥७॥
निप्रे० । समस्तेत्यांदि-अयं चार्थो बहुवचनाल्लभ्यते । सर्वत्र बहुवचनमधिकारार्थसंसूचनार्थमित्येष न्यायोऽत्र व्याकरणे द्रष्टव्य इति । चौरस्येत्यादि-एवं चौराणां निप्रहण्यते राज्ञा इति भावे, चौरा निप्रहण्यन्ते राज्ञा इति कर्मणि प्रयोगः । *इत्यादिकरणाच्च "कृगः प्रतियत्ने” (२।२।१२) पुनर्यनः प्रतियत्नः । सतो गुणान्तराधानाय अपायपरिहाराय वा समीहा । अयं भावः-प्रथमं तावदर्थस्यात्मलाभाय यत्नो भवति, ततो लब्धात्मनोऽधिकान गुणानुत्पादयितुं परिपूर्णगुणस्य वा तावदवस्थान्तं (ताद-३०
१ क्राथिर्घटादिगुह्यते नतु 'ऋथ अर्दिण् हिंसायाम्' इति यौजादिक इति वैयाकरणानां मतम्, धातुपारायणकारस्तु उपलक्षणखात् यौजादिकोऽपि । ननु यथा घटादेहखः पक्षे निषिध्यते तथा दस्युमदजीजसदित्यादी 'उपान्त्यस्य.' इत्यस्यापि किन निषेधः ? सत्यम् , यस्मिन् प्राप्त एवेतिन्यायात् घटादेरित्यस्यैव निषेधः। २ ननु हिंसाया रुजारूपत्वात् 'रुजार्थस्य .' इत्यनेनैव कर्मविकल्पो भविष्यति किमनेनेति; अथ जासनाटकाथेत्याकारश्रवणार्थमिदं सूत्रं विधीयते, तदा पिषग्रहणमनर्थक स्यात्तस्मात्पूर्वेणैव सिद्धमित्याह-अभा० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org