________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहै मलघु
स्मृत्यर्थदयेशः ॥ ५ ॥ [ सि० २२|११ ]
एषां व्याप्यस्य कर्मत्वं वा, कर्मत्वे द्वितीयाऽन्यथा षष्ठी । मातरं स्मरति मातुः स्मरति । मातुः स्मर्यते, माता स्मर्यते । सर्पिषो दयते । सर्पिर्दयते । लोकानामीष्टे । लोकानीष्टे । “नाथः " ( २२१० ) । तथा सर्पिर्नाथते । सर्पिषो नाथते ॥ ५ ॥
५
२२२
स्मृत्य ० । स्मृतिः स्मरणमर्थो येषां ते स्मृत्यर्थास्तेषां दयतेरीशश्च व्याप्यं कर्म वा भवति । कर्मत्वे इत्यादि - ननु कर्माविवक्षायां पक्षे माषाणामश्रीयादित्यादिवत् शेषषष्ठी सिद्धैव तत्किमनेन ? सत्यम्, किन्तु “षष्ठ्ययत्नाच्छेषे” ( ३|१|७६ ) इत्यत्र अयत्नजे शेषे षष्ठ्याः समासो वक्ष्यते । ततो मातुः स्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्नाच्छेषो विधीयते, नियमार्थं च; तेनैषां धातूनां कर्मैव शेषरूपेण विवक्ष्यते न कारकान्तरं तेन मात्रा स्मृतम्, मनसा स्मृतमित्यादौ कर्तृकरणयोः शेषविवक्षा१० ऽभावात्षष्ठी न भवति - माता स्मर्यते इति एवं मातुः स्मर्त्तव्यम्, माता स्मर्त्तव्या, मातुः स्मृतम्, माता स्मृता, मातुः सुस्मरम्, माता सुस्मरा । मातुः स्मृतः पुत्रः, अकर्मकत्वे कर्त्तरि क्तः । माता स्मृता पुत्रेण । स्मृत्यर्थग्रहणात् मातुरध्येति मातरध्येति 'इंकू स्मरणेऽधिपूर्वः इङिकावध्युपसर्गं न व्यभि - चरतः । “मैं चिन्तायाम्' मातुर्ध्यायति, मातरं ध्यायति । मातुरुत्कण्ठते, मातरमुत्कण्ठते- इत्यादि उत्पूर्वः 'कठुङ् शोके' इति धातुः । 'दयि दानादौ' 'ईशिकू ऐश्वर्ये' सर्पिषो दयते सर्पिर्दयते ददाती - १५ त्यर्थः । “नाथः” तथेति - आत्मनेपदविषयस्य नाथतेर्व्याप्यं कर्म वा स्यादित्यर्थः; आत्मनेपदविषयत्वं चास्य उपतापैश्वर्याशीर्याचनलक्षणार्थचतुष्टये वर्त्तमानस्यापि " आशिषि नाथः” ( ३।३।३६ ) इति वचनादाशिष्येवेति तत्रैवाऽयं विधिः । सर्पिषो नाथमानः, सर्पिनथमानः सर्पिषो नाथिष्यमाणः । सर्पिर्नाथिष्यमाणः । सर्पिषो नाध्यते सर्पिर्नाथ्यते । आत्मन इत्येव - पुत्रमुपनाथति पाठाय उपयाचत इत्यर्थः ॥ ५ ॥
२०
रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्त्तरि ॥ ६ ॥ [ सि० २२१३ ] ज्वरिसन्तापिवर्जपीडार्थधातूनामपि व्याप्यं कर्म वा भावे कर्त्तरि सति । चौरस्य चौरं वा जति रोगः । " जासनाटकाथपिषो हिंसायाम्" ( २।२।१४ ) चौरस्य चौरं वोजासयति ॥ ६ ॥
रुजा० । 'रुजत् भङ्गे' इत्यस्माद्भिदादित्वादङि रुजा पीडा साऽर्थो यस्येति । भावे इति - साध्यरू२५ पस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्दः सिद्धरूपे भावे वर्त्तते । चौरस्येति - 'चुरण् स्तेये' इत्यस्याणिजन्तस्य भिदाद्यङि चुरा सा शीलमस्य चौरः "अस्थाछत्रादेरन्” ( ६|४|६० ) इत्यनि वृद्धिः, रुजतीति "पदरुजविशस्पृशो घञ्” ( ५।३।१६ ) घनि रोगः । एवमपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण । अत्र कर्मत्वाभावे " तत्साप्यानाप्यादिति ०” ( ३।३।२१ ) भावे आत्मनेपदम्, कर्मसंज्ञायां तु कर्मणि । चौरस्य रुग्णं रोगेण - अत्र कर्मत्वाभावे "कीबे क्तः " ३० (५।३।१२३ ) इति भावे क्तः । चौरो रुग्णो रोगो-अत्रं कर्मसंज्ञायां कर्मणि क्तः । रुजार्थग्रहणात् 'अमण् रोगे' चौरस्य चौरं वा आमयति । एवं 'व्यथिष् भयचलनयोः' व्यथयति 'पीडणू गहने' पीडयति । ३२ रुजार्थेति किम् ? ‘“एति जीवन्तमानन्दः” । ज्वरिसन्तापिवर्जनं किम् ? आद्यूनं ज्वरयति, अत्याशिनं
1
१ व्यापारेषु नियुङ्क्ते स्वायत्तीकरोतीत्यर्थः । २ सर्पिमें भूयादित्याशास्ते । ३ सामान्येन चिन्तनार्थ उक्तोऽपि स्मृधातुरनुभूतस्यार्थस्य विशिष्ट चिन्तने वर्तमानो गृह्यते; एवंविधाश्च अध्येत्यादयोऽपि गृह्यन्ते, तेन मनसा परिकल्पितचिन्तनार्थानां समीक्षादीनां व्युदासः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org