________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । कर्मणि द्वितीया २२१ द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वमभिधातुं शक्नोति । यदि वा कटोऽपि कर्म भीष्मादयोऽपि । यथैव ह्ययं कटं करोत्येवं तद्गतान भीष्मादीनपि । तत्र यद्यत्करोतिना व्याप्नुमिष्टं तत्सर्व द्रव्यं गुणश्च कर्मेति सर्वेषां पृथक्कर्मत्वे प्रत्येकं द्वितीया पश्चात्त्वेकवाक्यतया विशेषणविशेष्यभाव इति । यदि वा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम् , भीष्मादीनां तु नं केवला प्रकृतिः प्रयोक्तव्येति नियमादविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायो-५ गाद्यथेश्वरसुहृदां स्वयं निर्द्धनत्वेऽपि तदेकैयोगक्षेमत्वात्तद्धनेनैव फलभाक्त्वं भवति । एवमकर्मणामपि कटकर्मत्वेनैव द्वितीया भविष्यति । कृतः कटो भीष्म उदारो दर्शनीय इत्यत्र तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति कचिदपि द्वितीया न स्यात् । कथं तर्हि कृतं पश्य, आहृतमाहर, क; क्रियते, दात्रेण लुनाति, दानीयाय ददाति, भीमाद्विभेति, प्रासादे प्रसीदति, शयने शेते इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु द्वितीयादयः स्युः । उच्यते-१० कर्मादिसामान्यं कृद्भिरभिहितम् , तेत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः सम्पन्न इति कर्मादिशक्तियुक्तं द्रव्यमेतदन्तैः शब्दैरभिधीयते यथेदं कर्मेदं करणमिति । तत्र यासौ खरूपकालभिन्नायां क्रियायां संव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति । यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिः स्यात्तत्र प्रधानक्रियाविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत् प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति । १५ यथौदनः पक्त्वा भुज्यते चैत्रेणेति भावाभिधायिना क्त्वाप्रत्ययेन ओदनाधिकरणाप्रधानपचिक्रियाविषया कर्मशक्तिरनभिहितापि प्रधानभुजिक्रियाविषयात्मनेपदेनाभिहितेति तद्वत् प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न स्यात्-यथा च प्रामो गन्तुमिष्यते चैत्रेणेति ग्रामस्य प्रधानेषिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानगमिक्रियाविषयापि कर्मशक्तिरुपभुक्तेति तदभिधानाय द्वितीयाचतुथ्यौँ न भवत इति । इहै च "गौणत्वं क्रियापेक्षं तेनाजां नयति ग्राममित्यादौ प्रामाद्यपेक्षयाजादेः प्रधानत्वेऽपि २० गौणत्वं ने विहन्यत इति । इह तु कृतपूर्वी कटम्, भुक्तपूर्वी ओदनम् , व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वान्निवर्त्तते । वृत्तेः परार्थाभिधायित्वात् क्रियया तु सह सम्बन्धोऽस्तीति द्वितीया स्यात् । अयमर्थः-क्रियावता तद्धितादिप्रत्ययवाच्येन कटादिः सम्बद्भ्यमानस्तत क्रियया व्याप्यते इति कमेत्वम् । व्याकरणस्य सूत्राणि करोतीति णिच-अत्र प्रत्ययोत्पत्तौ सूत्रव्याकरणयोः सम्बन्धो निवर्तते, अस्ति च व्याकरणेन करो-२५ तेरभिसम्बन्ध इति द्वितीया स्यात् प्रक्रियागतविभागाश्रयणेन चेदमुच्यते परमार्थतो धात्वन्तरं सूत्रिः । "सूत्रण क्रियावचने” इति । अथ कर्मसंज्ञायां प्रसिद्धप्रयोगोपयोगीनि कतिचित्सूत्राणि कण्ठतो निर्दिशति-२८
१ नहि भीष्मादीनां कट एवाधारः किन्वन्येऽपि । २ नापदं प्रयुजीतेति न्यायात् । ३ अलब्धलाभो योगः; लब्धपरिरक्षणं क्षेमः तस्य देवदत्तादेयावेको योगक्षेमौ तयोर्भावः । ४ करणादिक्रियामात्रयोग्यमित्यर्थः। ५ सामान्यकर्माभिधानेऽपि । ६ तत्राभिहितोऽपि कश्चिन्नान्तर्भवति, यथा राज्ञः पुरुष इत्यत्र वाक्ये । ७ कर्मादिशक्तियुक्त द्रव्ये । ८ कृताहतेत्या दिक्रियापेक्षया पश्याहरेत्यादिका क्रिया भिन्ना । ९ कारकलेनेत्यर्थः । १० या यस्य वा इत्यर्थः । ११ एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणामसम्भवात्प्रधानाप्रधानक्रियाविषयैवानेका शक्तिरिति तकियापेक्षया शक्तेरपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्य० । १२ उदाहरणान्तरम् । १३ ननु गौणानाम्रः कर्मणि द्वितीयेत्युक्तम् अजां नयति प्राममित्यादौ तु ग्रामाद्यपेक्षया अजादेः प्रधानखान्न ततो द्वितीया प्राप्नोतीत्याह इह चेति । १४ आख्यातपदेनासमानाधिकरणं गौणमिति गौणखस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । १५ तेन गौणत्वादजाशब्दादपि द्वितीया सिद्धा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org