________________
२२०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइत्यनेन प्राप्तकर्तृषष्ठीविकल्पात् तृतीया । "वैकत्र द्वयोः" इत्यस्य "द्विहेतोरूयणकस्य या” इत्यस्य च प्रवृ. स्युदाहरणं तु कारयिता कटस्य देवदत्तस्य, कटं देवदत्तस्य वेति गम्यमपि ज्ञेयम् । अत्र तु निष्प्रयोजनत्वान्न दर्शितमिति । तदेवमत्र कारयितेत्यादिप्रयोगद्वयेन वैकति सूत्रस्य षष्ठीविकल्पपक्षो दर्शितः, एतत्सूत्रस्य वृत्तौ तु प्रवृत्तिपक्षो वर्शितोऽस्ति, तथाहि-प्रथममेकस्मिन्कर्मणि विकल्पेन षष्ठी, द्वितीयकर्मणि "कर्मणि ५कृतः" इति नित्यं षष्ठी; पक्षे तु द्वयोरपि कर्मणोः षष्ठी, तथा च तत्रोदाहृतम्-अजाया नेता सुघ्नम् ,
अजाया नेता सुनस्य, । अथवा अजां नेता जुनस्य, अजाया नेता सध्नस्य इति प्रवृत्तिपक्षः। विकल्पपक्षे तु प्रथममेकस्मिन्कर्मणि षष्ठी, द्वितीयकर्मणि द्वितीया । पक्षेऽपि व्यत्ययेनैकत्र कर्मणि षष्ठी, द्वितीये द्वितीया तथैव कारयिता कटस्येत्यादि दर्शितम्। “दृश्यभिवदोरात्मने” (२।२।९) दृशेरभिपूर्वस्य
वदतेश्चात्मनेपदविषयेऽणिकर्ता णौ सति कर्मसंज्ञो वा भवति । पश्यन्ति राजानं भृत्यास्तान राजैवानु१० कूलाचरणेन प्रयुक्त-दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवदति गुरु शिष्यः, अभिवादयति गुरुः शिष्यं शिष्येण वा । उभयत्रापि "अणिकर्मणिकर्तृकात्" (३।३।८८) इत्यात्मनेपदत्वम् अथवा अभिवदति गुरु शिष्यः, तं मैत्रः प्रयुक्रे-अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः। “परिमुहायमायस." (३।३।९४) इत्यात्मनेपदविषयत्वम् । एवं दर्शयमानो राजा भृत्यान् भृत्यैर्वा । अभिवादयमानो गुरुः शिष्यं शिष्येण
वा । अथवा अभिवादयमानो गुरु शिष्यं शिष्येण वा मैत्रः । आत्मन इति किम् ? पश्यति रूपतर्कः १५कार्षापणम् , दर्शयति रूपतर्फ कार्षापणम् ; अभिवदति गुरुं शिष्यः, अभिवादयति गुरु शिष्येण । दृशेर्बोधार्थत्वेन नित्यं कर्मत्वे प्राप्तेऽभिवदेस्तु नित्यमप्राप्ते विकल्पः । यदा त्वभिव दिर्न प्रमाणार्थः, किन्तु शब्दक्रियस्तदा अभिवादयति गुरु शिष्यं मैत्र इति नित्यं प्राप्ते विभाषेति । 'वदिण भाषणे इत्यस्य णिजन्तस्यापि वर्णिगीच्छन्त्येके । अभिवादयति गुरुर्देवदत्तम् , तस्मिन्नाशिषं प्रयुङ्क्ते इत्यर्थः । अभि
वादयते गुरुं देवदत्तः गुरुणेति वा, आत्मन्याशिषं प्रयोजयतीत्यर्थः । णिगन्तस्यापीति कश्चित्२० अभिवदति गुरुः स्वयमाशिषम् , तं शिष्यः प्रयुके-अभिवादयति गुरुमाशिषं शिष्यः, तं मैत्रः प्रयुक्ते
अभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । नामधातोरभिवादयतेरपीच्छन्त्यन्ये । एतत्सर्व "कर्तुाप्यं कर्म" इत्यनेन सङ्गृहीतं ज्ञेयम् । अथ कर्मणो विभक्तिमाह
कर्मणि ॥ ४॥[सि० ॥२॥४०] द्वितीया स्यात् । कटं करोति । काष्ठं दहति । ग्रामं गच्छति । राज्यं प्रामोति । विषमत्ति । २५ग्रामं गच्छंस्तुणं स्पृशति ॥ ४॥
कर्म० स्पष्टम् । कटं करोतीति निर्वत्यै कर्म, काष्ठं व्हतीति विकार्यम् , ग्राम गच्छतीति प्राप्यम् । एवं राज्यं प्राप्नोतीति इष्टम् , विषमत्तीत्यनिष्टम् , तृणं स्पृशतीत्युदासीनम् । ननु क्रियते कटः, कृतः कटः, शतेन क्रीतः शत्यः पदः, आरूढः कपियं स आरूढकपिस्तरुरित्यादिषु कर्मसु द्वितीया कुतो न स्यादत्रोच्यते--त्यादिकत्तद्धितसमासैरभिहितत्वाल्लोकशास्त्रयोरभिहितेऽर्थे शब्दप्रयोगायोगात् । यद्येवं कटं ३० करोति भीष्ममुदारं दर्शनीयमिति भीष्मादिगुणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात्कर्मत्वम् , तञ्च
कटशब्दादेवोत्पन्नया द्वितीययाभिहितमिति भीष्मादिभ्यो द्वितीया न प्राप्नोति, यथा कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्तप्रत्ययेनेति । नैवम् । भीष्मत्वादियुक्तस्य कटस्य सम्बन्धि कर्मत्वं प्रतिपाद्यम् , नच जातिशब्दाः सम्भविनोऽपि गुणान् प्रतिपादयितुं शक्ता इति तत्प्रतिपादनाय यथा भीष्मा३४ दिशब्दप्रयोगो भवति तथा द्वितीयापि तेभ्यो भविष्यति । नहि सामान्यवाचिनः कटशब्दादुत्पद्यमाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org