________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कर्मसंज्ञाविधानम्
२१९
णिगन्तवाच्येनाणिक्कर्त्तर्व्याप्यत्वात्कर्मसंज्ञा सिद्धैव, नियमार्थं तु वचनम्, प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसम्बन्धिन एव प्रयोज्यकर्तुः कर्मसंज्ञा भवति, तेनान्यधातुसम्बन्धिनः कर्त्तृत्वमेव भवति । तथोक्तम् —
“द्वैकर्म्यहेतुरहिते णिगन्तधातौ द्विकर्तृता तत्र । उक्तः प्रयोजकः स्यात् कर्त्तानुक्तः प्रयोज्यस्तु” ॥१॥
1
यथा "भव्यैः कथं तदपि नाशय से शरीरम्" । एतच्च कर्तुक्तौ कर्मोक्तौ तु कर्मणि उक्तत्वम् । कर्नोस्तु ५ द्वयोरप्यनुक्तत्वं यथा “जाप्यतेऽन्तर्द्विषस्तीर्थकृता भव्यजनत्रजैः" इति । "भक्षेहिंसायाम्” ( २२/६) भक्षेः स्वार्थिकण्यन्तस्य हिंसार्थस्याणिक्कर्त्ता णौ सति कर्मसंज्ञो भवति । भक्षयन्ति सस्यं बलीवर्दास्तान् प्रयुङ्क्ते भक्षयति सस्यं बलीवर्द्दन्मैत्रः । उक्ते च कर्मणि भक्ष्यन्ते यवं बलीवर्दाः, भक्ष्यते यवो बलीवर्दान्मैत्रेणेति वा । वनस्पतीनां प्रसवप्ररोहादिमत्त्वेन चेतनत्वात्तद्विशेषस्य सस्यस्य प्राणविप्रयोगस्तद्भक्षणात्, स्वाम्युपघातो वाऽत्र हिंसेति भने हिंसार्थता । हिंसायामिति किम् ? भक्षयति पिण्डी १० शिशुस्तं प्रयुङ्क्ते भक्षयति पिण्डी शिशुना । भक्षयति राजद्रव्यं नियुक्तेन । भक्षयति पुत्रान् गार्ग्यभक्षयतिरत्राक्रोशे । आहारार्थत्वात्प्राप्ते नियमार्थं वचनम् । "वहेः प्रवेयः” ( २२|७ ) प्रवीयते प्राजनक्रियया व्याप्यते यः स प्रवेयः, नियन्तुः सारथेः प्रयोजयितुर्व्यापारस्य कर्मेत्यर्थः । वहेरणिकर्त्ता प्रवेयो णौ कर्मसंज्ञो भवति । वहन्ति बलीवर्दा भारम् तन्नियन्ता प्रयुङ्क्ते वाहयति भारं बलीवन, वाहयिता भारस्य बलीवर्द्दन्, वाहयिता बलीवर्द्धानां भारम् वाह्यन्ते भारं बलीवर्दा:, १५ प्रवेr इति किम् ? वाहयति भारं मैत्रेण - नात्र मैत्रो बलीवर्दादिवत् प्रवेयः । वहतिः प्राप्यर्थो यथावहन्ति बलीवर्दा देशान्तरं प्राप्नुवन्तीति । प्रापणार्थो यथा, ग्रामं भारं वहन्ति बलीवर्दा :- ग्रामं प्रापयन्तीति । अत्रापि प्रापणोपसर्जनप्राप्तिरस्त्येव । अकर्मको यथा, वहति नदी; तत्र प्राप्तेर्गतिरूपत्वात्प्रात्यर्थस्याकर्मकस्य च गत्यादिसूत्रेण सिद्धत्वान्नियमार्थमिदम् - वहेः प्रवेय एव कर्त्ता णौ कर्म भवति नान्य इति । यदापि वरविवक्षितकर्मत्वं तदापि "वा कर्मणाम ० " ( २।२।४ ) इति विकल्पात्पक्षेऽप्राप्तिरिति २० विध्यर्थमिदम् । न चैवं विधौ सति नियमो नोपपद्यते इति वाच्यम् । आवृत्त्योभयार्थपरिग्रह इति । "हृकोर्नवा ” ( २।२।८ ) हरतेः करोतेश्चाणिक्कर्त्ता णौ कर्मसंज्ञो वा भवति । प्राप्ते चाप्राप्ते च विकल्पः । प्राप्ते यथा - विहरति देशं गुरुर्विहारयति देशं गुरुं गुरुणा वा । एवमाहारयत्योदनं बालं बालेन वा । विकुर्वते सैन्धवाः, विकारयति सैन्धवान् सैन्धवैरिति वा । विकुरुते स्वरं क्रोष्टा, विकारयति स्वरं क्रोष्टारं क्रोष्टुना वा । अत्र गत्याहारार्थनित्याकर्मकशब्दकर्मकत्वेन यथासङ्ख्यं प्राप्तिः । अप्राप्ते - हरति द्रव्यं मैत्रः, २५ हारयति द्रव्यं मैत्रं मैत्रेण वा । करोति कटं चैत्रः, कारयति कटं चैत्रं चैत्रेण वा । अत्र हरतिश्चौर्यार्थो
1
1
प्राणार्थ इत्यप्राप्तिः । प्रापणार्थे तु प्राप्ते विभाषा - कारयिता कटस्य देवदत्तं देवदत्तेन वा । कारयिता कटं देवदत्तस्य देवदत्तेन वा । अत्र च “वैकत्र द्वयोः ” ( २।२।८५ ) इति वक्ष्यमाणसूत्रेण प्रथमप्रयोगे कटलक्षणे कर्मणि षष्ठी देवदत्तलक्षणे कर्मणि तु कर्मसंज्ञया द्वितीया, तदभावे कर्त्तृत्व विहिता वक्ष्यमाणेन " द्विहेतोरयणकस्य" वा ( २।२।८७ ) इति सूत्रेण वैकल्पिकी तृतीया । द्वितीयप्रयोगे देवदत्तलक्षणे ३० कर्मणि षष्ठी, कर्मसंज्ञाऽभावे प्राग्वत्तृतीया, कटलक्षणे कर्मणि तु वैकत्रेति “कर्मणि कृतः” (२।२।८३) इति प्राप्तषष्ठीविकल्पात् षष्ठीविमुक्तपक्षे द्वितीया । तथोक्तं लघुन्यासे - प्रथमप्रयोगे देवदत्तशब्दात्, द्वितीयप्रयोगे तु कटशब्दा " द्वैकत्र द्वयोः" इत्यनेन प्राप्तषष्ठी विकल्पाद् द्वितीया । तद्विमुक्तकर्मणि "कर्मणि कृतः” इत्यनेन षष्ठी । यद्यत्र "वैकत्र द्वयोः" इत्यनेन षष्ठीप्रवृत्तिः स्यान्न विकल्पस्तदा द्वितीये कर्मणि “कर्मणि कृतः” इत्यनेन नित्यं षष्ठी स्यात् । कर्तृप्रधान देवदत्तशब्दात्तु “ द्विहेतोररूयणकस्य वा ” ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org