Book Title: Gacchachar Prakirnakam Author(s): Vanarrishi, Publisher: Agamoday Samiti View full book textPage 9
________________ ताच्छेदिनि ५, अथ स्वगच्छे पश्चानामप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे| उन्मार्गगा पश्चानामप्यभावे संविग्नेऽसांभोगिके पश्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभाव गीतार्थपार्श्वस्थ- तमिसूरिचिसमीपे तदभावे सारूपिके संयतवेषगृहस्थे तदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थे तदभावे सम्यक्त्वभा हंगा. |१०-११ वितदेवतायां, यतो देवता महाविदेहादौ जिनानापृच्छय कथयत्यतः, तदभावे जिनप्रतिमापुरतः, तदभावे पूर्वाद्यभिमुखोऽहंतः सिद्धानभि समीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति, तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा १ भक्तकथा २ देशकथा ३ राजकथा ४ मृदुकारु|णिकाकथा ५ दर्शनभेदिनीकथा ६ चारित्रभेदिनीकथा ७ रूपा सप्तधा, आद्याश्चतस्रः कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृद्वी सा चासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिका, यथा-"हा पुत्त ! २ हा वच्छ ! २ मुक्कासि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज सा पडिया ॥१॥" दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपा ६ यस्यां कथायां कथ्यमानायां कृतवारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति ७ अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां 'परायणं'ति भृशं तत्परमित्यर्थः, भुवनभानुकेवलिपूर्वभवरोहिणीश्राविकावत् । यद्वा कथा चतुर्धा यथा-आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यया साऽऽशेपणी १, विक्षिप्यतेकुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २ संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यतेसंसारनिर्विण्णो विधीयते यया सा निर्वेदिनी ४, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य ! एवंविधं सूरिमुन्मार्गगाPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88