Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
बद्धयोहश्रेण्योरत्र पर्यटति, ६ तथा शम्बूकः-शङ्खस्तद्वत् या वीथिः सा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात आलोचशङ्खावर्त्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात्तथैव नादिकारी भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८, तथा श्रीवीरस्योदुम्बरविषयोऽन्योऽपि स्वपरग्रामे गृहसङ्ख्याविषयः
गच्छ:
जागा. ७४ क्षेत्राभिग्रहः २, अमुकवेलायां मया भिक्षार्थ गन्तव्यमिति कालाभिग्रहः ३, तथा गायन रुदन अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः ४ इति ॥ ७३ ॥
मुणिणं नाणाभिग्गह दुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमकं देविंदाणंपि तं गच्छं ॥ ७४ ॥ मुणिणं०॥ 'मुनीन्' साधून 'नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो दृष्ट्वेति गम्यते 'जायते' उत्पद्यते चित्ते-मनसि चमत्कारः-आश्चर्य चित्तचमत्कारः, केषां ?-देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा-आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थ पीठफलकप्रत्यर्पणार्थ कुलगणसवादिकार्यार्थ च हस्तशताबहिनिर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः १, समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः २, सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्र प्रायश्चित्तं, यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः ३, पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88