Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 75
________________ आर्यादित कारः अगा. १२३ . २४ 5453 श्रवणेन्द्रियं परमसन्तोषं प्राप्नोति । यद्वा 'गिण्हइ'त्ति गृह्णन्ति करचालनेन तथा वादयन्ति रागमण्डलं चाङ्गप्रमुख यथा बालतरुणादीनां श्रवणेन्द्रियं तोषं यातीति, यद्वा रागमण्डलं श्रोत्रेन्द्रियेण गृह्णन्ति, तथा च गृहस्थबालकान् क्रीडाथै गृह्णन्तीति । यत्रोत्तरार्धे पाठान्तरं यथा-"गिण्हइ रामणमंडणं भोयंति य तह य कब्बडे"त्ति, अस्यार्थः-'कब्बडे'त्ति गृहस्थबालकान् स्नेहाद् गृह्णन्ति तेषां 'रामणेति क्रीडां कारयन्ति 'मण्डनं' शरीरभूषणां कुर्वन्ति, तथा तान् भोजयन्तीति ता आर्याः केन कथ्यन्ते ?, न केनापीति ॥ १२२॥ जत्थ य थेरी तरुणी थेरी तरुणी अ अंतरे सुयइ । गोअम! तं गच्छवरं वरनाणचरित्तआहारं ॥१२३ ॥ जत्थ य० ॥ यत्र च गणे 'स्थविरा' वृद्धा तरुणी च-युवती साध्वी स्थविरा च तरुणी चकारान्मध्यमा तरुणी तरुणीमध्यमा च 'अन्तरे' अन्तराले स्वपिति, अन्यथा तरुणीनां निरन्तरशयने परस्परं जाकरस्तनपादादिस्पर्शने सति मन्मथचिन्ता पूर्वस्मरणादिकं भवति अतः स्थविरान्तरिताः स्वपन्ति हे गौतम! तं गच्छवरं जानीहि, किंभूतं ?-वरज्ञानMचारित्राधारमिति ॥ १२३ ॥ | धोइंति कंठिआउ पोयंती तहय दिति पोत्ताणि । गिहकजचिंतगीओ नह अजा गोअमा ! ताओ ॥ १२४ ॥ धाइ०॥"धावति' कारणं विना नीरेण क्षालयतीत्यर्थः 'कण्ठिकाः' गलप्रदेशान् तथा 'पोयंतीति आभरणमुक्ताफलचीडकादीनि 'प्रोतयन्ति' रन्ध्र सूत्रादिक. सञ्चारयन्तीत्यर्थः गृहस्थानामिति गम्यते, तथा 'ददति' अर्पयन्ति. 'पोत्ताणि' बाबालकाथै वस्त्रखण्डानि, चकाराद् दुग्धौषधजटिकादिकमपि ददति, यद्वा शरीरे 'पोतानि' मलस्वेदादिस्फोटनाय कार गच्छा .७

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88