Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 77
________________ आर्याधि कारः गा.१२७ २८ *याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्ध वा ख्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादौ प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थ, मुञ्चन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां 'वाहितीति व्यापारयन्तीत्यर्थः, संस्तवो द्विधा गुणसम्बन्धिसंस्तवभेदात् , |एकैको द्विधा पूर्वपश्चाद्भावित्वात् , तत्र दानात्पूर्व पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वः, श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करतीउत्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति ॥ १२६ ॥ समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपरिसाणुगा ॥१२७ ॥ समा सी० ॥ 'समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् 'सीस'त्ति स्वशिष्याः-स्वसङ्घाटिका इत्यर्थः प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्त्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासु'त्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' |सवेथाऽऽलस्यरहिताः, गुणा:-ज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः-समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्त्यादिगुणयुक्तत्वात् परिषत्- परिवाररूपा तयाऽनुगताः-सदासंयुक्ताः, एवंविधो गणः-साध्वीपरिवाररूपो विद्यते यासां ता गणिन्योमुख्यसाध्व्यो भवन्तीति ॥ १२७ ॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तों य, संगहे अविसारया ॥ १२८ ॥ 545455515ॐॐ

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88