Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
SAUSAASAASAASAASAASAASAASASEX
विंटालियाणि पउंजंति गिलाण सेहीण णेय तेप्पंति । अणगाढे आगाढं करंति आगाढि अणगाढं ॥११॥
वेण्टलका| ‘विण्टालिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुञ्जन्ति प्ररूपयन्तीत्यर्थः 'ग्लानिकानां दिवर्जनं रोगिणीनां 'सेहीण'त्ति नवदीक्षितसाध्वीनां 'नेय तप्पंति'त्ति औषधभेषजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्ती- अयतनात्यर्थः। तथा आगाढम्-अवश्यकत्तव्यं सभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढावात्सल्या. तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कायें अना
दि गा.
18|११९-२० गाढं कार्य कुर्वन्ति, गो०, यद्वा 'अणगाढेत्ति आचाराङ्गादिअनागाढयोगानुष्ठाने 'आगादति भगवतीप्रमुखमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगानुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ ११९ ॥ तथा
अजयणाए पकचंति, पाहणगाण अवच्छला । चित्तलिआणि अ सेवंति, चित्ता रयहरणे तहा ॥ १२०॥ अजय०॥ 'अयतनया' जीवयतनां विनेत्यर्थः 'पकुवंति'त्ति प्रकर्षेण-मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रमणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना-आचरणेनाथ षट्कायपरिपालना यत्र सा अयतना-केवलद्रव्यलिङ्गधारणा तया प्रकुर्वन्ति जठरपूरणार्थ रामाद्यावर्जनादिकमिति, तथा 'प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल'त्ति निर्दोपभव्यानपानादिना बहुमानपूर्वकं भक्तिं न कुर्वन्तीत्यर्थः, तथा 'चित्तलिआणि'त्ति चित्रितानि-नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चउकचीतलिकापाचीकासारपासकादीनि 'सेवन्ते' स्वयं प्रवर्तयन्ती

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88