Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 53
________________ - शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना ५ । 'नाहियवायं'ति नास्तिक - | वादः, यथा नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं इत्यादिकं 'नाहियवायं' ति मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षा कल्पादिक्षालनं 'डेवनं' वेगेनाश्ववद्गमनं कोशिकतापसवत्, 'लङ्घनं' वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' | परस्पर कलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' | अवर्णवादकथनमर्हदादीनामिति ॥ ८२ ॥ जत्थित्थीकरकरिसं अंतरिअं कारणेऽवि उपपन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥ ८३ ॥ जत्थित्थी ० ॥ यत्र गणे 'स्त्रीकरस्पर्श' साध्वीहस्तसङ्घट्टनं, उपलक्षणत्वात्पादादिसंहनं 'अंतरिअ'मिति विना 'कारणे'त्ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणं, 'अपि' समुच्चये, किंभूतं कारणं १-' उत्पन्नं' संजातं, दृष्टिविषसर्प| दीप्ताग्निविषमिव वर्जयेत् स गच्छः, यद्वा यत्र स्त्रीकरस्पर्श - गृहस्थरामाकरपादादिसङ्घट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र | प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति ॥ ८३ ॥ | बालाए बुड्ढाए नत्तुअदुहिआइ अहव भइणीए । न य कीरइ तणुफरिसं गोयम ! गच्छं तयं भणियं ॥ ८४ ॥ बालाए०||'बालायाः' अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः उपलक्षणत्वान्मध्यमायाः एवंविधायाः 'नघृकायाः सुतसुतायाः 'दुहितृकायाः' सुतासुतायाः अथवा 'भगिन्याः' याम्याः उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणं स्त्रीस्पर्शव जनम् गा. | ८३-८४ ५ १० १४

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88