Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
GRAHASRANAS
दायोगिनी भव, किं तव लग्नो यक्षः?, त्वां याकिनी भक्षयति ?, तव जननी मृता तव जनको मृतः रे? जोषं कुरु किंगृहस्थभा
जन्मान्तरे यक्षणी भविष्यसि ?, मकारं यथा म्रियतां मरिष्यति तव गुरुणी मृतस्तव गुरु: मुखं मा दर्शय दुष्टं मुखं | पावर्जनं कृष्णं कुरु तव मुखे विष्ठा पतिष्यति चिन्तां मा कुरु मुखं लात्वा गच्छ इतः, इत्यादिवचनपूर्वकं 'श्रमणी' श्रीजिनप्र
गा. १११ वचनदमनी 'जल्पति' बाढस्वरेण कुत्सितं वक्तीत्यर्थः 'गृहस्थप्रत्यक्षं गृहस्थानां श्रवणं यथा स्यात्तथा प्रत्यक्ष साक्षात् भवपरम्पराकोटिसङ्कले 'संसारे' चतुर्गत्यात्मके 'आर्या' साध्व्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः |'आत्मान' स्वयमिति ॥ ११॥
जस्थ य गिहत्थभासाहिं भासए अजिआ सुरुहावि । तं गच्छं गुणसायर ! समणगुणविवजियं जाण ॥११॥ | जत्थ०॥ यत्र गणे च 'गृहस्थभाषाभिः' सावद्यरूपाभिर्भाषते, गृहस्थानां यथा-तव गृहं ज्वलतु तव पुत्रो यमगृहे गच्छतु त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा-तव शवं कर्षयामि तव दन्तपहिं पातयामि तव चरणौ कतैयामि तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे ! इत्यादि भाषते, आर्यिका-अधमा मुण्डी सुरुष्टा-अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात् स्वभावस्थाऽपि गृहस्थभाषाभिर्भाषते-तव गृहं पतितं दृश्यते कथं तत्रोद्यमं न कुरुषे - तव पुत्री वृद्धाऽस्ति वरगवेषणं कुरु त्वं, त्वया सुष्टु कृतो विवाहः तव पुत्रवधूटी भव्याऽस्ति तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणक कथं न क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगु-15 णविवर्जितं 'जानीहि' अवगच्छ, अन्यत् किं कथ्यत इति ॥ १११॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88