SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ बद्धयोहश्रेण्योरत्र पर्यटति, ६ तथा शम्बूकः-शङ्खस्तद्वत् या वीथिः सा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात आलोचशङ्खावर्त्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात्तथैव नादिकारी भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८, तथा श्रीवीरस्योदुम्बरविषयोऽन्योऽपि स्वपरग्रामे गृहसङ्ख्याविषयः गच्छ: जागा. ७४ क्षेत्राभिग्रहः २, अमुकवेलायां मया भिक्षार्थ गन्तव्यमिति कालाभिग्रहः ३, तथा गायन रुदन अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः ४ इति ॥ ७३ ॥ मुणिणं नाणाभिग्गह दुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमकं देविंदाणंपि तं गच्छं ॥ ७४ ॥ मुणिणं०॥ 'मुनीन्' साधून 'नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो दृष्ट्वेति गम्यते 'जायते' उत्पद्यते चित्ते-मनसि चमत्कारः-आश्चर्य चित्तचमत्कारः, केषां ?-देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा-आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थ पीठफलकप्रत्यर्पणार्थ कुलगणसवादिकार्यार्थ च हस्तशताबहिनिर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः १, समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः २, सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्र प्रायश्चित्तं, यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः ३, पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy