SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छा- कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते कारणगृहीते उद्धरिते वा भक्तादिके विवेकः प्रायश्चित्तं, त्यजन्आलोच. चारलघु शुद्ध इत्यर्थः ५, नौनदीसन्तारसावद्यस्वप्नादिषु कायोत्सर्गः प्रायश्चित्तं ४, पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं ६, यः। वृत्तो | षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति गच्छ: ॥ २३॥ तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तं, अहोरात्रपञ्चकदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः ७, आकुट्टया पञ्चेन्द्रियवधे दर्पण मैथुने उत्सन्नविहारे इत्यादी मूलं प्रायश्चित्तं, पुनर्वतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते ८. स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्याई प्रायश्चित्तं, यावदुत्कृष्टं तपों नाचीणे तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतत्प्रायश्चित्तमुपाध्यायस्यैव दीयते ९, तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपानमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानर्द्धिनिद्रावति पाराश्चिक-5 प्रायश्चित्तं, स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहिः स्थाप्यते द्वादश वोणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात् , इदं च प्रायश्चित्तमाचार्यस्यैव दीयते १०, तत्रानवस्थाप्यस्तपःपाराश्चितकश्च प्रथमसंहनन- २५ 3/चतुर्दशपूर्वधरे गती, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थ तावद्भविष्यन्तीति ॥ ७४ ॥ अथ जीवरक्षा-151॥२३॥ |दिद्वारेण गच्छस्वरूपमाह पुढविदगअगणिमारुअ वाउवणस्सइतसाण विविहाणं । मरणंतेऽविन पीडा कीरह मणसा तयं गच्छं ॥७॥
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy