Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
श्रीगच्छाचारलघुवृत्त
॥ २० ॥
भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणां सप्रायश्चित्तप्रायश्चित्तभयेन विषण्णां प्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्र तिष्ठन्नपि 'नयसरिसो'त्ति नयसदृशो भवति साधुः कोऽर्थः ? - यथा नैगमादिभिः सप्तभिर्नयैः सूत्रं व्याख्यायमानं आज्ञां नातिक्रामति, एवमत्रापि जिनाज्ञां नातिक्रामति साधुः । तथा 'जाण असिलेसो'त्ति 'अश्लेषः' अबन्धकः 'जाण'त्ति ज्ञातव्यः, आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति ॥ ७० ॥ पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह -
वायामितेणवि जत्थ भट्टचरित्तस्स निग्गहं विहिणा । बहुलद्विजुअस्सावी कीरह गुरुणा तयं गच्छं ॥ ७१ ॥ वाया० ॥ वाच्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण रे कुशील ! रे अपण्डित ! रे जिनाज्ञाभञ्जक ! रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल ! इत्यादिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन - करचालनशिरः कम्पनादिना यत्र गणे, कस्य ? - 'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः 'विधिना' सूत्रोक्तप्रकारेण कथंभूतस्य ? - ' बहुलब्धियुक्त - स्यापि ' आमशषधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि 'क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण ' तयं'ति स गच्छः । किञ्चिल्लब्धिस्वरूपं यथा - " आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सङ्घोसहि ५ संभिन्नसोय ६ ओही ७ रिउ ८ विउलमइलद्धी ९ ॥ १ ॥ चारण १० आसीविस ११ केवली य १२ गणधारिणो १३ य पुबधरा १४ ।
भ्रष्टनिग्रा
हको गच्छः
गा. ७१
२०
२५ ॥ २० ॥
२८

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88