Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 40
________________ श्रीगच्छाचारलघुवृत्तौ ॥ १९ ॥ किं पुण० ॥ किं पुनः 'तरुणः' युवा, किंभूतः ? - ' अबहुश्रुतः' आगमपरिज्ञानरहितः चकारान्न देशादौ मुख्यत्वेन प्रवृत्तः, न चापि हु विकृष्टतपश्चरणो-न दशमादितपः कर्त्ता, एवंविधो मुनिः 'आर्या संसर्ग्या' निष्कारणं मुण्ड्या सह विकथा|परिचयादिकरणेन 'जनवचनीयतां' लोकापवादलक्षणां किं न प्राप्नुयात् ?, अपि तु प्राप्नुयादित्यर्थः ॥ ६५ ॥ जइवि सयं थिरचित्तो तहावि संसग्गिलद्धपसराए । अग्गिसमीवे व घयं विलिज्ज चित्तं खु अज्जाए ॥ ६६ ॥ ज० ॥ यद्यपि 'स्वयं' आत्मना 'स्थिरचित्तः' दृढाध्यवसायः साधुस्तथाऽपि तस्य मुनेः संसर्ग्या - गमनागमनादि - रूपया लब्धः - प्राप्तः प्रसरः- अवसरो घटीद्विघव्यादिवार्त्तालापादिरूपो यया सा तथा तथा आर्यया अग्निसमीपे घृतवत् विलीयते रागवद्भवतीत्यर्थः 'चित्तं' साधोः साध्व्यध्यवसानरूपं 'खु' निश्चयेनेति ॥ ६६ ॥ सर्वत्थ इत्थवग्गंमि अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं तद्विवरीओ न नित्थरइ ॥ ६७ ॥ ० ॥ 'सर्वत्र' दिवानिशागृहाङ्गणमार्गादिषु 'स्त्रीवर्गे' अनाथरण्डामुण्ण्यादिरामावृन्दे 'अप्रमत्तः' रामाभिः सह निद्राविकथादिप्रमादरहितः सन् 'सदा' सर्वकालं 'अविश्वस्थः (स्तः) ' विश्वासरहितो रामासु एवंविधो 'निस्तरति' निरतीचारं पालयतीत्यर्थः, किं ? - 'ब्रह्मचर्य' मैथुनत्यागरूपं, 'तद्विपरीतः' उक्तविपर्यस्तो 'न निस्तरति ' न ब्रह्मचर्य पालयतीत्यर्थः ॥ ६७ ॥ सत्सु विमुत्तो साहू सवत्थ होइ अप्पवसो । सो होइ अणप्पवसो अजाणं अणुचरंतो उ ॥ ६८ ॥ सबत्थे० ॥ 'सर्वार्थेषु' सर्वहेयपदार्थेषु 'विमुक्तः' ममतादिरहितः 'साधुः' मोक्षसाधकः 'सर्वत्र' क्षेत्रकालद्रव्यभावादिषु आर्यानुचरदोषाः गा. ६२-७०. २० २५ ॥ १९ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88