Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 38
________________ श्रीगच्छाचारलघुवृत्तौ ॥ १८ ॥ हील्यते वचनोलङ्घनसम्मुख जल्पनमर्मोद्घाटनादिप्रकारेण चकाराद् यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते वज्रं प्रति | सिंहगिरिशिष्यरत्नवृन्दवत् हे गौतम! स गच्छ इति ॥ ६० ॥ अथाऽऽर्याधिकारमाह | जत्थ य अज्जाकप्पो पाणञ्चाएवि रोरदुभिक्खे । न य परिभुंजइ सहसा गोयम ! गच्छं तयं भणियं ॥ ६१ ॥ • जत्थ य० ॥ यत्र च गणे आर्याकल्पः - साध्व्यानीतं रोरदुर्भिक्षे प्राणत्यागेऽपि 'सहस' त्ति सिद्धान्तोक्तविधिमकृत्वा न परिभुज्यते, यद्वा यत्र च गणे आर्याकल्पः - साध्व्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जङ्घाबलक्षीणश्री अन्य कापुत्राचार्यादिवत्, हे गौतम! 'गच्छः' गणः 'तयं' ति सः मया भणितः, आर्षत्वादत्र | विभक्तिपरिणामः । अस्या गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं कर्त्तव्यमिति ॥ ६१ ॥ अथोत्सर्गेण जल्पनपरि - चयादिकं निवारयन्नाह— जत्थ य अज्जाहिं समं थेरावि न उल्लवंति गयदसणा । न य झायंति थीणं अंगोवंगाई तं गच्छं ॥ ६२ ॥ ज० ॥ यत्र गणे 'आर्याभिः साध्वीभिः 'समं' सार्द्धं चकाराद्रण्डागत कान्तादिभिः स्त्रीभिः सार्द्धं च तरुणाः साधव आस्तां स्थविरा अपि 'नोलपन्ति' न निष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा, तत्र षष्टिवर्षजाता जातिस्थविरा: १ समवायधराः श्रुतस्थविराः २ विंशतिवर्षपर्यायाः पर्यायस्थविराः, ३ किंभूताः १ - गताः - प्रनष्टा दशना-दन्ता येषां ते गतदशनाः, 'न ध्यायन्ति' न सरागदृष्ट्या चिन्तयन्तीत्यर्थः 'स्त्रीणां' नारीणां कानि? -'अङ्गोपाङ्गानि' तत्र अङ्गान्यष्टौ भोजनकारणानि गा. ६१-२ २० २५ ॥ १८ ॥ २७

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88