Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 36
________________ क्षणम् गा. श्रीगच्छा- चारलघु- वृत्ती ॥ १७॥ स आहार एव उदरकुकुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डक, तत्प्रमाणं कवलस्य १, गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः-अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलन्नः प्रविशति तत्प्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यून नाप्यत्याध्रातं स्यादुदरं धृतिं च समुदहति तावत्प्रमाण आहारो भावकुकुटीति २। यद्वा 'जायमजायाहारे'त्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः-निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति । अथवा जातो-गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निःस्पृहाः, ६ अजातो-गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति । तथा 'द्विचत्वारिंशदेषणाकुशलाः' तत्रैषणा चतुर्धा, कस्याप्येषणेति नामेति नामैषणा १, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा-सचित्ताचित्तमिश्रद्रव्यभेदात्रिधा ३, भावैषणाऽपि गवेषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्रिधा, तत्र गवेषणायामाधाकर्मादिधाच्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोजनादिपञ्चदोषा विज्ञेया इति ॥५७॥ तंपि न रूवरसत्थं न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वहणत्थं ॥५८॥ तंपि न०॥ 'तमपि' आहारं न 'रूपरसाथै' तत्र रूप-शरीरलावण्यं रसश्च-भोजनास्वादस्तदर्थं न 'न च वर्णार्थं न च ६ शरीरकान्त्यर्थमित्यर्थः, 'न चैव दार्थ' न चानङ्गवृद्ध्यर्थे भुञ्जीतेति शेषः, किन्तु 'संयमभरवहनार्थ' चारित्रभारवहनार्थ २५ २७

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88