Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi,
Publisher: Agamoday Samiti
View full book text
________________
वृत्ती
श्रीगच्छा
दर्शयतीत्यर्थः, 'आज्ञा' पारगतोक्तमर्यादां 'अतिक्रमन्' उल्लयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधान- आज्ञातिचारलघु Pापुरुषो, जमालिवदिति ॥ २७ ॥ अथ कीदृशा आचार्या आज्ञातिकामका भवन्ति ?, आह
क्रामकस्य भदायारी सूरी १ भट्ठायाराणुविक्खओ सूरी २। उम्मग्गठिओ सूरी ३ तिन्निवि मग्गं पणासंति ॥२८॥ स्वरूपं त
भदा० ॥ भ्रष्टः-सर्वथा शिथिलीभूतः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरिः' अधर्माचार्यः १ भ्रष्टा-13 त्सेवाफलं ॥१०॥
चाराणां-मुक्तसंयमव्यापाराणां मुनीनामुपेक्षकः, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्द-18|गा:२९. धर्माचार्यः २ 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरिः' अधमाधमो नामाचार्यः ३ एते त्रयोऽपि 'मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः॥ २८ ॥ एतान् यः सेवते तस्य फलं दर्शयन्नाह
उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरिं। निअमेणं सो गोयम! अप्पं पाडेइ संसारे ॥२९॥ उम्म० ॥ 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् ‘सन्मार्गनाशकान्' जिनोक्तमार्गदूषकान् 'या' भव्यसत्त्वः सेवते, तदुक्तमनुष्ठानं कुरुत इत्यर्थः, तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि मिति 'सूरीन् आचार्यान् प्राकृतत्वादेकवचनं, 'नियमेन' निश्चयेन स हे गौतम! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः ॥२९॥ किञ्च
उम्मग्गठिओ एकोऽवि नासए भवसत्तसंघाए । तं मग्गमणुसरंतं जह कुत्तारो नरो होइ ॥३०॥ सम्म०॥ एकोऽपि' - अद्वितीयोऽपि सूरिः साधुर्वा "उन्मार्गस्थितः' कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे । पातयतीत्यर्थः 'भव्यसत्त्वसङ्घातं' भवसिद्धिकजन्तुसमूहं तन्मार्ग 'अनुसरन्तं' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतारः'
***USANKOSKA
२७

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88