Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 32
________________ श्रीगच्छाचारलघुवृत्ती सद्गच्छलक्षणम् गा. ५२ ॥ १५ ॥ गुरुणो छंदणुवत्ती सुविणीए जियपरीसहे धीरे । नवि धड़े नवि लुद्धे नवि गारविए न विगहसीले ॥५२॥ ___ 'गुरोः' स्वाचार्यस्य 'छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 'सुविनीता' शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः-शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचाराङ्गनियुक्तौ-"इत्थीसक्कारे परीसहा य दो है भावसीयला एए । सेसा वीसई उण्हा परीसहा होति णायचा ॥१॥जे तिबपरीणामा परीसहा ए भवंति उण्हा उ । जे मंदपरीणामा परीसहा ते भवे सीया ॥ २ ॥” तथा च ज्ञानावरण १ वेदनीय २ मोहनीया ३न्तरायेषु ४ क्षुत्पिपासा २ शीतोष्ण ४ दंशा ५ चेला ६ रति ७ स्त्री ८ चर्या ९ नैषेधिकी १० शय्या ११ ऽऽक्रोश १२ वध १३ याञ्चा|१४ ऽलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कार १९ प्रज्ञा २० ऽज्ञान २१ सम्यक्त्व २२ लक्षणा द्वाविंशतिरप्यवतरन्ति, यथा दर्शनमोहे सम्यक्त्वपरीपहः, तदुदये तस्य भावात् १, प्रज्ञाऽज्ञाने द्वे ज्ञानावरणे ३, अलाभोऽन्तराये ४, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति ११, क्षुत्पिपासा २ शीतोष्ण४ दंश ५ चर्या ६ शय्या ७ मल ८ वध ९ रोग १० तृणस्पर्श ११ एते एकादश वेदनीयोदये भवन्ति, शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीपहाणामिति । तथा नवमगुणस्थानक यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिनुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्या वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिकी तस्मिन् चर्या न वेदयतीति । सूक्ष्मसंपराये-दशमगुणस्थाने क्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, २५ ॥१५॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88